________________
३३६
तत्वार्थाधिगमसूत्रम्
[ अध्याय: ५
टी० - - धर्माधर्माकाशेत्यादि । धर्मादीनाममूर्तत्वात् परस्परेण वर्तनं न विरोधकारि, नापि पुद्गलविषया वृत्तिर्धर्मादीनां विरुद्धयते, तद्बलेन गतिस्थित्यवगाहदर्शनादात्मनथ कर्मपुद्गलव्याप्तेः, सिद्धमिदं जीवो महान्तमणुं वा संहारविसर्गाभ्यां विग्रहं गृह्णाति ।। भा०-अत्राह- सति प्रदेश संहारविसर्ग सम्भवे कस्माद सङ्ख्येय भागादिषु जीवानामवगाहो भवति नैकप्रदेशादिष्विति ? । अत्रोच्यते
टी० - अत्राहेत्यादि । इदमिदानीं चोदयति- प्रदेशसंहरणसामर्थ्यमस्त्यात्मनः, तत् किमित्यविकलकारणकलापः सर्वान् प्रदेशानुपसंहृत्य एकस्मिन्नाकाशदेशे नावस्थानं कल्पयति प्रतिबन्धकवस्त्वभावात् ? कस्मादसङ्ख्येयभागादिष्ववगाह इष्यते, नैकप्रदेशादिष्विति निरुपपत्तिकमित्याशङ्कयते, अत्रोच्यत इत्याह, न वयमनुपपत्तिकमर्थं प्रतिजानीमहे, किन्तु । भा० – सयोगत्वात् संसारिणां चरमशरीरत्रिभागहीनावगाहित्वाच सिद्धानामिति ॥ १६ ॥
टी० - सयोगत्वात् संसारिणामित्यादि । योगाः प्रथिता एव औदारिकविर्ग्रहाः, सत्यपि च सामान्योपादाने व्यापित्वात् कार्मणयोग एव परिगृह्यते, सह योगेन सयोगःकार्मणशरीरीतियावत्, सर्वस्य संसारिणो भवितव्यमवश्यं कार्मणेन वपुषा, ततश्चानन्तानन्तपुद्गलप्रचितसर्व संसारिकार्मणशरीरोप श्लेषादसङ्ख्येयप्रदेशावगाहितैव नैकादिप्रदेशावैगाहितेति । चरमशरीर इत्यादि । चरमशरीरं त्रिभागही नमवगाहन्ते सिद्धा इति च, अनेनैतद् दर्शयति-देहे त्रैभागः शुषिरस्तत्पूरणात् त्रिभागहीनावगाहः, स च योगनिरोधकाल एव भवति, अत: सिद्धोऽपि तदवस्थप्रमाण एवेति सामर्थ्याभावान्नातः परमस्ति संहरणमनावरणवीर्यस्यापि भगवतः, किं पुनः शेष संसारिणः १ स्वभावश्चायमेतावानेवोपसंहारः, न चास्ति स्वभावे पर्यनुयोगः । अपि च - सकर्मासौ, ततश्च नास्त्युपसंहृतिरल्पतरा । कर्मवियुक्तः कस्मान्नोपसंहरतीति चेत्, प्रयत्लाभावात्, प्रयत्नाभावश्च करणाभावात्, अनवद्यं दर्शनम् । इदमुक्तं भवति - सङ्क्षिपतो विकसनसक्ङ्कोचनधर्मत्वादात्मप्रदेशसन्तानः पद्मनालतन्तुसन्तानवद विच्छेदेन विकासमासादयति, अविच्छेदव प्रदेशानाममूर्तत्वाद् विकासधर्मत्वादेकत्वपरिणतेः जीवाभिवृद्धेर्विकासश्च सिद्धः, छेददर्शनात् सक्रियत्वाच्चारविन्दनालतन्तुसन्तानवदेव च जीवप्रदेशाः सकलमितरद् विशन्त्यल्पमपहाय, छिने तर्हि मूर्धन्यपविध्य शिरः किमिति स प्रदेशसन्तानस्तनुं नाविशतीति चेत्, असदेतत्, वेदनायुषोर्भेदात्, बहवो हि जीवदेशाः समुदायीभूयासते यत्र तदाचक्षते मर्म, बहुमर्मकथ मूर्धा, महती च वेदना भवति मर्मदेशेषु, आयुर्भेदश्चाध्यवसानादिनिमित्तः सप्तधा प्रसिद्धः,
१ 'प्रदेशेष्विति' इति क-ख-पाठः ।
२ शरीरमात्रे व्यापनात् कार्मणावव्याप्तेः औदारिकादिविग्रहा इति योगव्याख्याय शरीरमात्राख्यानम् ।
१३ औदारिकादिस्थूलशरीराणां कार्मणावगाहानुसारित्वात् कार्मणस्यैव ग्रहः ।
४ असंख्याकाशप्रदेशावगाढस्यैव कार्मणादेर्यहात् आरात् अयोगत्वाद् अग्रहः, एकाकाशप्रदेशाब बोधस्तु न केवलमन्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org