________________
३३५
सूत्रं १६ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् ___टी-जीवस्थ हीत्यादि । यस्माज्जीवस्य प्रदेशानां सङ्कोचविकासाविष्येते, पटस्येव पिण्डितविततावस्थायिता, प्रदीपप्रकाशस्येव सङ्कुचनप्रसारणे, चर्ममण्डलस्येव संहारविसर्गाविति ॥ ननु च तद्वदेवानित्यः स्यात्, असाम्प्रतमिदम्, नहि स्याद्वादिभिः प्रदीपादीनामनित्यत्वमेकान्ततोऽभ्युपगम्यते, द्रव्यपर्यायनयद्वयाविष्टत्वात् सर्वस्य वस्तुन इत्यतो नित्यानित्यादिविकल्पभाजः सर्वे पदार्था इति सङ्गरो जैनानाम् । आत्माऽप्येवंधर्मक एवेति चेत्, सिद्धसाध्यता । एतेनैतदपि प्रत्युक्तम्
___"वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ।
चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलः॥" - नव्योमैकान्तेन नित्यं नापि चर्मानित्यमुत्पादादित्रययुक्तत्वाद् विश्वस्य वस्तुनः, तच्चोक्तं वक्ष्यते च, एकान्तनित्यानित्ययोश्च कर्मफलसम्बन्धाभावः ॥ दीपस्य सङ्कोचविकासप्रदिदर्शयिषया आह
भा०–तद्यथा-तैलवय॑ग्न्युपादानप्रवृद्धः प्रदीपो महतीमपि कूटागारशाला प्रकाशयति, अण्वीमपि, माणिकावृतो माणिकां, द्रोणावृतो द्रोणं, आढकावृतवाढकं, प्रस्थावृतः प्रस्थं, पाण्यावृतः पाणिमिति ॥
टी-तद्यथा-तैलवर्तीत्यादि। भास्वत्किरणनिकरः प्रदीपो माणिकाढकप्रस्थायधिकरणसम्बन्धी निरावरणव्योमसमन्धकारावधृतप्रमाणः तेजोऽवयवसंहारादल्पोऽल्पतरोऽल्पतमो वाऽन्यतमश्च लक्ष्यते, स एव चापनीतसकलस्थगनको विद्योतमानमूलमूर्तिरदभ्रं व्योमदेशमवभासयति, तैलवत्यंग्युपादानप्रवृद्ध इत्यनेनाविकलां कारणसामग्रीमाचष्टे, कूटागारशालादिमिरनेकामवस्थामादर्शयति, अपरित्यक्तस्वात्मावयवोऽप्यनेकमाकारमादत्ते प्रदीपः ॥
भा०-एवमेव प्रदेशानां संहारविसर्गाभ्यां जीवो महान्तमणुं वा पञ्चविधं शरीरस्कन्धं धौधौकाशपुद्गलजीवप्रदेशसमुदायं व्याप्नोतीति, अवगाहत इत्यर्थः॥
टी-एवमेव प्रदेशानामित्यादि भाष्यम् । दार्टान्तिके दृष्टान्तार्थमुपसंहरति-पञ्चविधमौदारिकादिशरीरसङ्घातं धर्माधर्माकाशपुद्गलजीवप्रदेशसमुदायम्, अवश्यमेव हि लोकाकाशे धर्माधर्माकाशपुद्गलाः सन्ति, जीवप्रदेशाश्च भजनीयाः, यत्रैकोऽवगाढो जीवस्तत्रान्यस्याप्यवगाहो न विरुद्धयत इति, एवं धर्मादिसमृहं व्यानोति, अवगाहत इत्यर्थः ॥
भा०-धर्माधर्माकाशजीवानां परस्परेण पुद्गलेषु च वृत्तिने विरुद्धयते, अमूतत्वात्। १ 'असत्फलं' इति क-ख-पाठः । २ ०शयति अथो (?) मणिका०' इति क-ख-पाठः, तत्र अण्वीमपीति नास्ति ।
३ अनावृतस्तु स्वावयवमानमाकाशं व्याप्नोति, न तु सर्व जगत्, आत्मा तु समुद्घातकाले लोकव्यापी, सिद्धिकाले तु त्रिभागोनावशिष्टः, अशुषिरसंभूतशरीरानुकार्यवगाहादनन्तरं निष्प्रयोजनत्वेन अवगाहसंकोचाभावः ।
४ एकस्मिन्नाकाशदेशे अनेकजीवानेकप्रदेशावगाहात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org