________________
३३८ तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ५ यथा च सरित्तडाग हदसमुद्रेष्वेवगाहित्वे सति मत्स्यस्य स्वयमेव सञ्जातजिगमिषस्योपग्राहक जलं निमित्ततयोपकरोति, दण्डादिवन्मृदः परिणामिन्याः, नभोवद् वा, अपेक्षाकारणं हेतुरिति कारणसामान्यप्रतिपत्तिकारि, एते हि शब्दा नार्थान्तराभिधायितया प्रवर्तन्ते । तथा चोक्तम्
“निर्वर्तको निमित्तं, परिणामी च विधेष्यते हेतुः।
कुम्भस्य कुम्भकारो, वर्ता मृचेति समसङ्ख्यम् ॥"-आर्या न पुनस्तजलद्रव्यं गतेः कारणभावं बिभ्राणमगच्छन्तमपि झर्ष बलात् प्रेर्य गमयति, क्षितिर्वा स्वयमेव तिष्ठतो द्रव्यस्य स्थानभूयमापनीपद्यते, न पुनरतिष्ठद् द्रव्यं बलादवनिरवस्थापयति, व्योम वाऽवगाहमानस्य स्वत एव. द्रव्यस्य हेतुतामुपैत्यवगाहं प्रति, न पुनरनवगाहमानमवगाहयति स्वावष्टम्भाव, स्वयमेव च कृषीवलानां कृष्यारम्भमनुतिष्ठतां वर्षमपेक्षाकारणं दृष्टं, न च नृनकुर्वतस्तास्तदर्थमारम्भयद्वर्षवारि प्रमितम्, प्रावृषि वा नवाम्भोधरध्वनिश्रवणनिमित्तोपाधीयमानगर्भा प्रसूते स्वत एव बलाका, न चाप्रसूयमानां तामभिनवजलधरनिनादः प्रसभं प्रसावयति, प्रतिबुध्य वा पुरुषः प्रतिबोधनिमित्तां विरतिमातिष्ठमानोऽवद्याद् दृष्टः, न च पुमांसमविरमन्तं विरमयति बलात् प्रतिबोधः । यदि तर्हि निमित्तकारणं धर्माधर्मों दण्डादिवदेवं सत्यपेक्षाकारणतैव हीयते, यतो निर्व्यापारमपेक्षाकारणमुच्यते, नैतदेवम्, अपेतयुक्तित्वात्, नहि नियोपारं कारणं, किं तर्हि ? कुर्वत् कारणम् , अपेक्षाकारणं चैतावतोच्यते, धर्मादिद्रव्यगतक्रियापरिणाममपेक्षमाणं जीवादिगत्यादिक्रियापरिणतिं पुष्णाति, एवं तर्हि निमित्तापेक्षाकारणयोर्ने कश्चिद् विशेषः, अस्ति विशेषः, दण्डादिषु प्रायोगिकी वैससिकी च क्रिया, धर्मादिषु वैससिक्येवेति, भाष्यकारेण कारणसामान्यप्रतिपिपादयिषयोपन्यस्तो निमित्तशब्दः, यावता चांशेन स्वतो व्यापारपरिणतिर्दण्डादीनां तदंशप्रदर्शनपरतया निमित्तशब्दोपादानमिति, न च गत्युपकारोऽवगाहलक्षणाकाशस्योपपद्यते, किं तर्हि ? धर्मस्यैवोपकारः स दृष्टः, स्थित्युपकारश्चाधर्मस्य, नावगाहलक्षणस्य व्योम्नः, अवश्यमेव हि द्रव्यस्य द्रव्यान्तरादसाधारणः कश्चिद् गुणोऽभ्युपेयः, द्रव्यान्तरत्वं च युक्तेरागमाद् वा निश्चयं, युक्तिवेक्ष्यते । आगमस्तु सर्वज्ञदत्तस्वहस्तः प्रकाशत एवाव्याहतः"कई णं भंते ! दव्वा पण्णत्ता ? गोयमा! छ दवा पण्णत्ता, तंजहा-धम्मत्थिकाए, अधम्मथिकाए, आगासत्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए, अद्धासमये" ॥ ननु धर्मद्रव्योपकारनिरपेक्षमेव शकुनेरुत्पतनमूर्वज्वलनमग्नेर्मरुतश्च तिर्यग्गैमनं स्वभावादेवानादिकालीनादिति, उच्यते-प्रतिज्ञामात्रमिदं, नाहतं प्रति हेतु दृष्टान्तावनवद्यौ स्तः, स्वाभाविक्यां गतौ धर्मद्रव्योपकारनिरपेक्षायां, यतः सर्वेषामेव जीवपुद्गलानामासादितगतिपरिणतीनामुपग्राहक
१' वेबगवाहित्वे' इति ग-पाठः । २ 'प्रतीतं' इति क-ख-पाठः । ३ कति भदन्त ! द्रव्याणि प्रज्ञप्तानि ? गौतम ! षड् द्रव्याणि प्रज्ञप्तानि, तद्यथा-धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, पदलास्तिकायः, जीवास्तिकायः, भद्धासमयः। ४ 'तिर्यग्वलनं ' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org