________________
३२८
तत्त्वार्थाधिगमसूत्रम्
[ अध्याय: ५
नाभिधित्सिता विशिष्टैव, न क्रियासामान्यम्, धर्मादयः पूर्वावष्टन्धप्रदेशात् प्रदेशान्तरमपि विचलितुमनुत्सहमानाः कथमेवैवंविधक्रियाधारतां प्रतिपत्स्यन्ते । तस्मान्निष्क्रियाणीति निरवद्यं दर्शनम् ॥ ६ ॥
अधुनाऽधिकृतधर्मादिद्रव्याणां सर्वेषामेव प्रदेशावयवेयत्ताविष्करणार्थमिदमुच्यते— भा०—– अत्राह-उक्तं भवता - प्रदेशावयवबहुत्वं कायसंज्ञमिति । तेत् क एष धर्मादीनां प्रदेशावयवनियम इति १ । अत्रोच्यते
टी० - अत्राह-उक्तमित्यादिना सम्बन्धयति, अध्यायादिसूत्रे यस्मादजीवकाया इत्यत्र कायग्रहणं प्रदेशावयवबहुत्वार्थमिति व्याहृतम्, तस्मात् क एषां धर्मादीनां जीवान्तानां प्रदेशावयव नियम इति, अत्रेति प्रदेशावयवनियमप्रश्ने यथागममभिधीयते मया, एषोऽभिप्रायः प्रश्नयितुः --अमूर्तेषु धर्मादिष्ववयवव्यवहारो नास्ति, मूर्तेषु चान्त्यमेदावस्थेषु परमाणुषु, अवयवव्यवहारो हि मूर्तेष्वेव प्रतीयत इत्यतो नियमोऽभिधेयः के एषामवयवा इति ।
भा० – सर्वेषां प्रदेशाः सन्ति, अन्यत्र परमाणोः । अवयवास्तु स्कन्धानामेव । वक्ष्यते हि - 'अणवः स्कन्धाश्च, सङ्घातभेदेभ्य उत्पद्यन्ते' (अ० ५, सू० २५-२६ ) ॥
11
टी० – सर्वेषामित्यादि भाष्यम् । मूर्तानाममूर्तानां च प्रदेशाः सन्ति - विद्यन्ते, संव्यवहारार्थं प्रदिश्यन्त इति प्रदेशाः, तत्र धर्माधर्माकाशजीवानां द्रव्यपरमाणुमूर्तिव्यवच्छिन्नाः प्रदेशाः, यथाsse - " निरवयवः खलु देशः, खस्य क्षेत्रप्रदेश इति दृष्टः । पुद्गलद्रव्यस्य तु निरंशो द्रव्यात्मना भागः प्रदेश इत्युच्यते, न तु तस्यान्यः प्रदेशोऽस्ति, अतः परमाणोरन्यत्रेत्युक्तम्, इदं च द्रव्यांशं प्रदेशध्वनिवाच्यमाधाय चेतसि भाष्यकारेणोक्तमन्यत्र परमाणोः प्रदेशाः सन्ति, न पर्यायांशं रूपादिलक्षणम् । यतः प्रशमरतौ (श्लो०२०८) अनेनैवोक्तं - "परमाणुरप्रदेशो, वर्णादिगुणेषु भजनीयः” । अत एव च भेदः प्रदेशानामवयवानां च, ये न जातुचिद् वस्तुव्यतिरेकेणोपलभ्यन्ते ते प्रदेशाः, ये तु विशकलिताः परिकलितमूर्तयः प्रज्ञापथमवतरन्ति तेऽवयवा इत्यत आह - अवयवा इत्यादि । विशेषार्थस्तुशब्दः । विस्रसाप्रयोगाभ्यामवयूयन्त इत्यवयवाः पृथक् क्रियन्त इतियावत्, ते च स्कन्धानामेव व्यणुकादिक्रमवतामनतिक्रान्तरूपादि भेदानाम्, एवशब्दो नियामकः । धर्माधर्माकाशजीवाणूनां न सन्त्य - वयवाः, स्कन्धानामेव भवन्ति । कुत एतदेवमित्याह - वक्ष्यत इत्यादि । यस्माद् वक्ष्यते सूत्रकारः - संघातभेदजाः स्कन्धाः ( सू० २६ ) । वियुतानामवयवानां संहतिपरिणतौ स्कन्धा जायन्ते, संहतानां च भेदपरिणतौ व्यणुकादयः सम्भवन्ति, परमाणवस्तु भेदादेवावयूयमाना अवयवास्तस्मादवयवव्यवहारः पुद्गलद्रव्यविषय एवाध्यवसेयः ॥
१ 'तस्मात् क एषां धर्मा० इति घ-पाठः ।
२ एवं च सति स्कन्धादिरूपभेदचतुष्टयं पुद्गलास्तिकाये न स्यात् तस्वतः स्पष्टोपलभ्याः स्नेहादिकृतसंयोगवि• योगभावः अंशा अवयवास्ते यैः द्रव्यमन्यत् क्रियते भवन्ति वा ते स्कन्धेष्वेव परेष्वप्रसिद्धत्वादवयवप्रहो न ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org