________________
सूत्रे ७-८ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
३२९
अधुनाऽवसितप्रदेशावयव नियमो धर्मादिद्रव्य प्रदेशानामियत्तामाविष्करोति, तत्र— प्रदेशसङ्ख्या सूत्रम् — असङ्ख्येयाः प्रदेशा धर्माधर्मयोः ॥ ५-७ ॥
टी० – तत्रेत्यादि । तेषु धर्मादिषु द्रव्येषु पञ्चसङ्ख्यावच्छिन्नेषु धर्माधर्मयोरसङ्ख्येयाः प्रदेशा धर्माधर्मयोः प्रत्येकमसख्येयाः प्रदेशा भवन्ति, ते च लोकाकाशप्रदेशमानाः सङ्ख्ये यानन्तसङ्ख्याद्वयव्युदासेनासङ्ख्येयाः कथ्यन्ते ।
प्रदेशस्वरूपनिर्दिधारयिषुराह
भा० – प्रदेशी नामापेक्षिकः सर्वसूक्ष्मस्तु परमाणोरवगाह इति ॥ ७ ॥
टी० - प्रदेशो नामेत्यादि । प्रकृष्टो देशः प्रदेशः परमनिरुद्धो निरवयव इतियावत्, नामशब्दः किलार्थे, परोक्षत्वात् तस्य, एवं हि सर्वज्ञाः प्रत्यक्षेणोपलभ्य कथयन्ति, अपेक्षा - प्रयोजनः अपेक्षानिर्वृत्तो वा आपेक्षिकः, स च स्वसिद्ध एवार्वाग् दर्शनैरस्मदादिभिरनेनाभ्युपायेन प्रज्ञाप्यमान आपेक्षिक उच्यते, सर्वेषां धर्माधर्माकाशजीवानामापेक्षिकत्वे सत्यपि सूक्ष्म एव, न स्थूलः । तुशब्दोऽवधारकः । आपेक्षिकत्वं निरूपयति - परमाणोरवगाह ति । द्रव्यपरमाणुपरिग्रहेण प्रदेश परिमाणोरवगतिः क्रियते, तदेतदुक्तं भवति - तन्मूर्तिमा - श्राक्रान्तो देशः प्रदेश उच्यते, अवगाहो व्यवस्थानमाक्रान्तिरध्यासनमिति पर्यायाः, न पुनरिहावगाहो गतिः । नन्वेवमाकाशस्यैव प्रदेशो निरूपितः स्यात्, नो धर्मादीनाम्, यतोऽवगाह आकाशस्य लक्षणम् । अस्तु, को दोषः ? प्रदेशलक्षणं तावन्निर्ज्ञातम्, लोकाकाशे च यत्राकाशप्रदेशः स च यावांस्तत्रैव धर्मास्तिकाय प्रदेशोऽवगाढः स च तावानेवेति, एवमधर्मप्रदेशोऽपि तत्र वाच्योऽतस्तुल्यप्रमाणत्वादेकेनैव प्रघट्टेन प्रदेशनिरूपणम्, तत्राकाशमवकाशदाने व्याप्रियते, गतिपरिणतौ धर्म उपकारकः, स्थितिपरिणामे चाधर्मद्रव्यमुपकरोति, तस्मात् सर्वप्रदेशानामिदमेवापेक्षणीयमव्याहतं लक्षणम् । इतिशब्देनोपसंहरन्ति - धर्माधर्म योरियती प्रदेशसङ्ख्येति ॥ ७॥
अधुना त्वसङ्ख्येयप्रदेशे प्रस्तावमुपजीवन् जीवस्य तत्तुल्यप्रदेश नियतत्वात् प्रदेशनियमं विधत्ते
जीवस्य प्रदेश
सङ्ख्या
१ यथा हि स्कन्धेषु संबद्धः प्रदेशः कदाचिदपि आगत्य संलमो नैषमयमिति भावः । २ निश्चय परमाणुज्ञापनाय सर्वेत्यादि, अन्यथा तु एकस्मिन्नपि परमाणुसमूहस्य तन्मयस्य च स्कन्धस्य चावगाहात्, प्रदेशद्वयावगाहीति सुक्तमिदं, सूक्ष्माषगाहस्य तस्यैव भावात् ।
तथापि नैकः परमाणुः
५१
सूत्रम् — जीवस्य च ॥ ५–८ ॥
भा०—- एकजीवस्य चासङ्ख्येयाः प्रदेशा भवन्तीति ॥ ८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org