SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ सूत्र ६] स्वोपज्ञभाष्य—–टीकालङ्कृतम् ३२७ अपेतक्रियाणि निष्क्रियाणि, करणं क्रिया- द्रव्यस्य भावस्तेनाकारेण स चैषां न समस्ति, यस्माद् धर्माधर्माकाशान्यनासादितातिशयान्येव सर्वदा पूर्वापरावस्थाभेदमनाजिहानानि किल लक्ष्यन्ते, तदेतदपव्याख्यानमवधीरित समय सद्भावैरकारि, यतः सर्वमेव सदुत्पादव्ययधौव्यधर्मात्मव्यवस्थां नातिक्रामति, तदेतेऽपि धर्मादयो यदि सत्तां नातिलङ्घयन्ति भवितव्यं तदा तर्हि क्रिययैषामुत्पादविगमलक्षणया जीवानामिव । अथ सत्तातिक्रमेणाभ्युपेयन्ते तदानीं द्रव्यतैवावहीयते गगनेन्दीवरादिवत् भगवानपि व्याजहार प्रश्नत्रयमात्रेण द्वादशाङ्ग प्रवचनार्थ सकलवस्तुसङ्ग्राहित्वात् प्रथमतः किल गणधरेभ्यः - " उप्पण्णेति वा विगमेति वा धुवेति वा" । तदेतदशेषं विशीर्यते । तस्माद् द्रव्यत्वान्मुक्तात्मवदुत्पादव्ययस्थितिमत्त्वमनुमिमते हैतुकाः । तथा चावधृतसिद्धान्तहृदयेन विशेषावश्यककारेण नमस्कारनिर्युक्तौ शब्दानि - त्यत्वप्रतिपादनेच्छ्याऽवाचि " अवगाहणादओ नणु गुणत्तओ चैव पत्तधम्मन्न । उप्पादादिसभावा तह जीवगुणावि को दोसो ? | अवगाढारं च विणा कत्तोऽवगाहोत्ति तेण संजोगो । उपपत्ती सोsवस्सं गवकारादओ चेवं ॥ य पयतो भिण्णं दव्वमिगं ततो जतो तेण । aणासंमि कहं वा नभादओ सव्वहा णिश्चा ? ।। " ( गा० २८२१ - २८२३ ) अयमासामर्थोऽवधार्यः - गुणत्वात् पत्रनीलतावन्न भोऽवगाहोऽप्यनित्यः, नभसोऽवगाहः स्वलक्षणमुपकारः, स चावगाढारमन्तरेण जीवादिकं नाभिव्यज्यत इति अवगाढजीवादिसंयोगमाश्रमवगाह इति, संयोगश्चोत्पादी संयुज्यमानवस्तु जन्यत्वाद् द्व्यङ्गुल संयोगवत्, यथा चावगाह आकाशस्यैवं गतिस्थित्युपकारावपि धर्माधर्मयोर्गतिमदादिद्रव्यसंयोगमात्रत्वादुत्पादादिस्वभावा इति । कथं तर्हि निष्क्रियत्वमेषामत आह- पुद्गलजीवास्तु क्रियावन्तः क्रियेति गतिकर्माह सूत्रकारः, पुद्गलजीववर्तिनी या विशेषक्रिया देशान्तरप्राप्तिलक्षणा तस्याः प्रतिषेधोऽयम्, नोत्पादादिसामान्यक्रियायाः, पुद्गलास्त्वितो देशान्तरमास्कन्दन्तः समुपलभ्यन्ते जीवाचेत्यतस्ते क्रियावन्तः, अमुमेवार्थ धात्वन्तरेण प्रसिद्धदेशान्तरप्राप्त्यर्थेन प्रकाशयति-गतिः क्रियाशब्दे " १ उत्पन्न इति वा विगत इति वा ध्रुव इति वा । Jain Education International २ अवगाहनादयो ननु गुणत्वतश्चैव पत्रधर्म इव । उत्पादादिस्वभावास्तथा जीवगुणा अपि को दोषः ? ॥ १ ॥ अवगाढारं व विना कुतोऽवगाह इति तेन संयोगः । उत्पाद सोऽवश्यं गत्युपकारादयश्चैवम् ॥ २ ॥ म च पर्ययतो मिन्नं द्रव्यमिहैकान्ततो यतस्तेन । ता कयं वा नभआदयः सर्वथा वित्याः ? ॥ ३ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy