________________
३२६
तत्त्वार्थाधिगमसूत्रम् [ अध्यार्यः ५ पुनरेषां विशेषाभिधित्सया सूत्रमाह
सूत्रम्-आकाशादेकद्रव्याणि ॥ ५-५॥ टी०-अथवा पुद्गलद्रव्यं परमाणुभेदेनानेकधा जीवद्रव्यं च नारकादिविशेषेण, तत् किमेवं धर्मादिद्रव्याण्यपीत्यारेकानिराकरणायेदमुच्यते -
. भा०-आ आकाशाद् धर्मादीन्येकद्रव्याण्येव भवन्ति । धर्मादीनां सङ्ख्या पुद्गलजीवास्त्वनेकद्रव्याणीति ॥५॥
टी० -आ आकाशादित्यादि भाष्यम् । अभिविधिवाचित्वादातो द्वित्वं ततश्च संहितया सूत्रपाठस्तं विवृणोति भाष्येण-आ आकाशात् अध्यायादिसूत्रोपात्तक्रममुद्दिश्याकाशामिव्याप्तिप्रचिकाशयिषया आ आकाशादित्युवाच । धर्मादीनीति प्रथितप्रतिविशिष्टानुपूर्वीप्रदर्शनं धर्माधर्माकाशानि एकद्रव्याण्येवेति, नैषां समानजातीयानि द्रव्यान्तराणि सन्तीति, अविलक्षणोपकारात, धर्माधर्माकाशानां हि गतिस्थित्यवगाहोत्पत्त्या प्रभावित उपकारः, स्थित्यादित्रययुक्तं हि वस्त्वर्थक्रियासमर्थमभ्युपेयतेऽनेकान्तवादिभिः, धर्मादिद्रव्यागां च गत्यादय उपकाराः स्वस्थाने युक्त्या प्रतिपादयिष्यन्ते, एकशब्दोऽसहायार्थमभिधत्ते, यथा परमाणुः परमाण्वन्तरेण सद्वितीयः, आत्मा आत्मान्तरेण ज्ञानसुखदुःख जीवनादिभेदभाजा, न धर्मद्रव्यं धर्मद्रव्यान्तरेण ससहायम्, अधर्मव्योमनी चैवमाविष्कार्ये, द्रव्यं गुणपयोयवद (सू० ३७) वक्ष्यते, तदनेन स्वगतधर्मपरिणामप्राप्तिरापाद्यते मुक्तस्येव, अन्यथा गुणपर्यायशून्यं द्रव्यमेव न स्याद् व्योमोत्पलादिवत, एवशब्देन नियम्यते एकद्रव्याण्येवैतानि, तुल्यजातीयद्रव्याभावात्, नियमेन चेष्टार्थसिद्धि प्रदर्शयति-पुद्गलजीवास्त्वनेकद्रव्याणीति, सम्भाव्यानेकतया पुद्गलात्मानो विशेष्यन्ते तुशब्देन, इतिकरणं यस्मादर्थे, यस्मात् तुल्यजातीयभूयस्त्वमेषां तस्मादनेकद्रव्याणि परमाणुप्रभृतीन्यनन्ताणुकस्कन्धावसानानि क्षितिजलज्जलनानिलतरुद्वित्रिचतुष्पश्चेन्द्रियात्मानश्चेति भावनीयम् ॥५॥ अयमपरो विशेषस्तेषामेवाभिधीयते
सूत्रम्-निष्क्रियाणि च ॥ ५-६ ॥ टी.-अथवा एवं तावदरूपित्वैकद्रव्यत्वे विभज्याख्याते इदमपि विभज्याख्यायत इत्याहचार्थमाचष्टे भाष्यकार:
भा०—आ आकाशादेव धर्मादीनि निष्क्रियाणि भवन्ति । धर्मादिषु क्रियावि'चा""' पुद्गलजीवास्तु क्रियावन्तः । क्रियेति गतिकमोह ॥ ६॥
टी-आ आकाशादेव धर्मादीनीत्येतावता भाष्येण कथं भाव्यते ? । अनन्तरसूत्रे सामर्थ्यपरिप्रापितानि धर्मादीन्यनुकृष्यन्ते, धर्मादीन्याकाशान्तानि निष्क्रियाणि भवन्ति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org