________________
सूत्रं 8 ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
दध्यादतिविकलत्वात्, प्रधानोपसर्जनतया तु कदाचित् किञ्चिद् विवक्ष्यते शिविकावाहकयानेश्वरयानवत्, अतः प्रत्यक्षप्रमाणप्रसिद्धपदार्थस्वरूपे नाती वायासयति बुद्धिमात्मवन्तः, तस्मान्नित्यानित्ययोरास्पदमेकममी पुगला इति न किञ्चित् कस्यचिद् बाध्यते, ते च रूपवन्त इति ॥ अधुना भाष्यमनुश्रियते
पुनललक्षणम्
भा०- पुद्गला एव रूपिणो भवन्ति । रूपमेषामस्त्येषु वाऽस्तीति रूपिणः ॥४॥ टी० - पूरणाद् गलनाच्च पुद्गलाः - परमाणुप्रभृतयोऽनन्तानन्तप्रदेशस्कन्धपर्यवसानास्त एव रूपवत्तामनन्यसाधारणी मनेकरूपपरिणति सामर्थ्यापादितसूक्ष्मस्थूलविशेषाविशेषप्रकर्षाप्रकर्षवर्तिनीं विभ्रति, न धर्मादिद्रव्यविशेषा इति रूपवत्व, मत्रावधार्यते, तद्धि न जातुचिदतिचिरपरिचितपरमाणुव्यणु कादिक्रम वृद्धद्रव्य कलापमुज्झति सामर्थ्याच्च पुगला अपि न तां विहाय वर्तन्ते, अतः पुद्गला एव रूपिण इति सुष्ठुच्यते । रूपं मूर्तिरिति च प्राक् (सू० ३) प्रतिपादितम्, अतस्तदनु सन्धानाभिप्रायेणाह - रूपमेवामस्त्येषु वाऽस्तीति रूपिण इति । एषामिति पुद्गलानां परमाणुयणु कादिक्रमभाजाम्, उक्तलक्षणं रूपं मूर्तिः सा विद्यत इति रूपिणः, षष्ठीप्रदर्शनात् तु भेदविवक्षावशपरिप्रापितं द्रव्यगुणयोर्नानात्वमध्यवसातव्यम्, अभेदविवक्षोपनीतं च द्रव्यपर्याययोरैक्यम्, अतस्तत्प्रदर्शनाय व्यापकाधिकरणलक्षणा सप्तमी विगृह्णता आचार्येणोपात्ता । अथवा तुल्य एव मत्वर्थोऽयमुभयत्राभेदो भेदश्व पर्यायनयापेक्षो द्रव्यास्तिकनयापेक्षश्च योजनीयः । न मूर्तिव्यतिरेकेण पुद्गलाः सन्ति, भिन्नदेशसम्बन्धित्वेनानुपलब्धेः, व्यतिरेकिणोऽपि गमकत्वाद्सन्निहित विपक्षकस्येत्य भेदः, तथा यदिदं चन्दनमुपलभ्यते तस्य श्वेतं रूपं, तिक्तो रसः, पटुर्गन्धः, शीतलः स्पर्श इति; यश्चैष प्रत्यक्षेण प्रत्यक्षस्य व्यपदेशः सोऽर्थान्तरे दृष्टः, तद्यथा - अस्य ब्राह्मणस्यायं कमण्डलुरिति ॥ ननु वोपन्यस्तनिदर्शनचलेन द्रव्यमेव द्रव्यादर्थान्तरमिति न गुणेभ्यो द्रव्यमिति, उच्यते-योग्यमुपलभ्यस्य समस्तैरुपलब्धैर्व्यपदेशः सोऽर्थान्तरं गमयति, तच्च द्रव्यं गुणः क्रिया वा स्यादिति कोsपरितोषः १ । सेनावनादिवदनेकान्त इति चेत्, दृष्टो ह्यनर्थान्तरेऽपि व्यपदेशः सेनायाः कुञ्जरः सहकारः काननस्येति । अत्रोच्यते- न खलु प्रसिद्धमनर्थान्तरत्वं सेनाकाननयोर्यस्मादनियतदिग्देशसम्बन्धिषु करिपुरुष तुरगस्प (स्य १ ) न्दनेषु परस्परप्रत्यासत्तिजनितोपकारेष्ववधारितानवधारितेयत्तेषु बहुत्वसङ्ख्यैव सेना, तथा काननमपि, एतच्च द्वयमप्यर्थान्तरमेव, यूषपङ्क्यादयोऽपि ह्यर्थान्तरतयैवं वक्तव्याः, यूषो ह्युत्पन्नपाकजानां द्रव्याणां कालविशेषानुग्रहे सति द्रव्यान्तरसम्पृक्तानां पाकजोत्पत्तौ यः संयोगः स यूष इत्याख्यायतेऽर्थान्तरभूतच, पङ्क्ति रप्येकदिग्देशसम्बन्धिषु परस्परप्रत्यासत्युपकृतेष्ववधारितानवधारितेय त्ताकेषु भिन्नाभिन्नजातीयेष्वाधारेषु वर्तमाना बहुत्वसङ्ख्यैवाभिधीयत इति । तस्मात् सापेक्षभिदं नयद्वयं वस्तुनः सद्भावमापादयति नैकान्त इत्यस्यार्थस्योद्भासनार्थमकरोद् भाष्यकारो विभक्तिद्वयेन विग्रहम्, अतोऽयं वाक्यार्थः - पुद्गलेषु मूर्तिर्भेदाभेदवर्तिनी विवक्षावशादिति ॥ ४ ॥
Jain Education International
1
For Personal & Private Use Only
३२५
-
www.jainelibrary.org