________________
३२४ तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ५ सम्भवन्तावपि पुनर्ग्रहीतुं शक्यौ, परिणामविशेषवत्त्वात्, एवं पार्थिवाप्यतैजसवायवीयाणवोऽप्येकजातीयाः कदाचित् काञ्चित् परिणतिं बिभ्रतो न सर्वेन्द्रियग्राह्या भवन्ति, अतो रूपरसगन्धस्पर्शा एव विशिष्टपरिणामानुगृहीताः सन्तो मूर्तिव्यपदेशभाजो भवन्ति ॥ अपरेऽन्यथा वर्णयन्ति भाष्यम्-मूर्तिशब्देन रूपमेवाभिधीयते, ये च रूपमाश्रित्य वर्तन्ते स्पर्शादयस्तेऽपि मूर्तिशब्दवाच्याः, तदेतदयुक्तम्, 'द्रव्याश्रया निर्गुणा गुणाः ' (अ० ५, सू० ४०) इति वक्ष्यते, द्रव्यमाश्रयो भवति स्पर्शादीनां, न पुना रूपमुपन्नतयेष्यत इति । अथापि पयोयनयसमाश्रयणादुच्येते न द्रव्यमस्ति रूपादिग्रहे द्रव्यबुद्धयभावादतो रूपादय एव परस्परसमाश्रयेण वर्तमानाः सेनावनादिवन्मूर्तिशब्दवाच्या इति, तथापि भाष्यं न सङ्गच्छते, रूपं मूर्तिमू
ाश्रयाश्च स्पर्शादय इति, न ह्येकः पदातिः करी वा सेना, किन्तु परस्परसमाश्रयेण वर्तमानास्तुरगकरिरथपदातयः सेनेत्येवं न रूपमेव मूर्तिः किन्तु समुदाय इत्यतो यथावर्णितमेवास्तां भाष्यमिति ॥ ३॥ नित्यावस्थितान्यरूपाणीत्यविशेषविधाने केषांचिदपवादार्थ लक्षणमारभ्यते
सूत्रम्-रूपिणः पुद्गलाः ॥ ५-४ ॥ टी-विशेषश्रुतेः सामान्यचतिनिषेधमुखेनात्मलाभादागृहीतविशेषत्वादपवादस्य नित्यत्वावस्थितत्वाभ्यनुज्ञानद्वारेणारूपत्वमात्रप्रतिषेधोत्र विवक्षितः, अरूपाः पुद्गला न भवन्ति, किं तर्हि ? रूपिणः, तत्स्वभावाव्ययत्वाच नित्यता सदा समस्त्येव, रूपादिमत्तया चाव्यतिकीर्यमाणस्वभावतयाऽवस्थितत्वं पुद्गलानाम् ॥ ननु चोत्पादविनाशवत्त्वादनित्यतैवातिस्पष्टैषां, तत् कथं तद्विरोधिनी नित्यतानुबु(ब?)ध्यत इति ? । अत्रोच्यते-द्विविधा हि नित्यता प्रवचनविद्भिराख्यायते-अनाद्यपर्यवसाननित्यता सावधिनित्यता च, तत्राद्या लोकसनिवेशवदनासादितपूर्वापरावधिविभागा सन्तत्यव्यवच्छेदेन स्वभावमजहती तिरोहितानेकपरिणतिप्रसवशक्तिगर्भा
भवनमात्रकृतास्पदा प्रतीतैव, अपरा श्रुतोपदेशनित्यतावदुत्पत्तिप्रलयव. नित्यताया द्वविध्यम्, वेऽप्यवस्थानात पर्वतोदधिवलयाद्यवस्थानवच सावधिका । अनित्यता
ऽपि द्विविधा-परिणामानित्यता उपरमानित्यता च, तत्र परिणामानित्यता नाम मृत्पिण्डो हि विस्रसाप्रयोगाभ्यामनुसमयमवस्थान्तरं प्रागवस्थाप्रच्युत्या समश्नुते, उपरमानित्यता तुं भवोच्छेदवदपास्तगतिचतुष्टयपरिभ्रमक्रियाक्रमपर्यन्तवर्तिनी परिप्राप्तावस्थानविशेषरूपा, नात्यन्ताभावभाविनीति, तत्र परिणामानित्यतया पुद्गलद्रव्यमनित्यमित्याचक्ष्यते, तद्भावाव्ययतया च नित्यम्, उभयथा हि दर्शनात् । न च विरोधोऽस्ति कश्चिदित्येतत् प्रपञ्चतः प्रतिपादयिष्यते परस्तात्, उभयीमेव वाऽवस्थामास्थाय वस्तु सकलां वास्तवीं धियमाधिनोति, अन्यथाऽङ्गारकितमात्रनियतपलाशवतत्त्वग्राहिवन्न प्रधानाराधनसाधीयसी बुद्धिमा
१ 'नुभव ' इति क-पाठः।
अनित्यतायाश्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org