SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ [ अध्यायः सत्त्वार्थाधिगमसूत्रम् अथ व्यन्तराणां परा स्थितिः कीदृशीत्याह सूत्रम्-परा पल्योपमम् ॥ ४-४७॥ भा०-व्यन्तराणां परा स्थितिः पल्योपमं भवति ॥४७॥ टी-व्यन्तरदेवानां पल्योपममुत्कृष्टा, व्यन्तरीणामुत्कर्षेण पल्योपमामिति ॥४७॥ अथ ज्योतिष्काणामुत्कृष्टस्थित्यभिधित्सया प्राह सूत्रम्-ज्योतिष्काणामधिकम् ॥ ४-४८॥ भा०--ज्योतिष्काणां देवानामधिकं पल्योपमं स्थितिर्भवति ॥४८॥ टी०-पल्योपममित्यनुवर्तते, तदधिकं ज्योतिष्कदेवानामुत्कृष्टा स्थितिः सूर्यदेवस्य वर्षसहस्राधिकं पल्योपमम्, चन्द्रमसो वर्षलक्षाधिकं तदेव, ज्योतिष्कदेवीनामुत्कर्षेण पल्योपमार्ध पश्चाशद्भिर्वर्षसहस्रैरभ्यधिकमिति ॥४८॥ सूत्रम्-ग्रहाणामेकम् ॥ ४-४९ ॥ भा०-ग्रहाणामेकं पल्योपमं परा स्थितिर्भवति ॥ ४९ ॥ टी०-पल्योपममभिसम्बन्ध्यते, अङ्गारकादीनामिति ॥ ४९ ॥ सूत्रम्-नक्षत्राणामधेम ॥४-५०॥ भा०-नक्षत्राणां देवानामर्धपल्योपमं परा स्थितिर्भवति॥५०॥ टी-अश्विन्यादीनां पल्योपमा स्थितिः परेति ॥ ५० ॥ सूत्रम्-तारकाणां चतुर्भागः॥ ४-५१॥ भा०-तारकाणां च पल्योपमचतुर्भागः परा स्थितिर्भवति ॥५१॥ टी०--परा स्थितिः पल्योपमचतुभागस्तारकाणामिति ॥५१॥ सूत्रम्-जघन्या त्वष्टभागः॥ ४-५२ ॥ भा०-तारकाणां तु जघन्या स्थितिः, पल्योपमाष्टभागः ॥५२॥ टी०-तारकाणां पल्योपमाष्टभागो जघन्येति ॥ ५२ ॥ सूत्रम्--चतुर्भागः शेषाणाम् ॥ ४-५३॥ भा०-तारकाभ्यः शेषाणां ज्योतिष्काणां चतुर्भागः पल्योपमस्यापरा स्थितिरिति ॥५३॥ टी–तारकव्यतिरिक्तज्योतिष्काणां ग्रहनक्षत्राणां जघन्या स्थितिः पल्योपमचतुर्भागो वेदितव्येति ॥ ५३ ॥ ॥ इति श्रीतत्त्वार्थसङ्ग्रहे अर्हत्प्रवचने भाष्यानुसारिण्या टीकायां देवगतिप्रदर्शनो नाम चतुर्थोऽध्यायः ॥ ॥ इति चतुर्थोऽध्यायः॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy