________________
पञ्चमोऽध्यायः ५ टी.-निर्देशस्वामित्वादिभिरनुयोगद्वारैर्लक्षणविधानमाजो जीवानमिवायोडेशसूत्रे वत्समनन्तरोपदिष्टानजीवान् विवक्षुः पञ्चमाध्यायसम्बन्धाभिप्रायेणाह
भा०-उक्ता जीवाः, अजीवान वक्ष्यामः ॥ टी.-अभिहिता यथाशक्ति द्रव्यभावप्राणकलापवर्तिनो जन्तवः सुरतियअनुष्यनारक
विधानतस्तथा साकारानाकारोपयोगद्वयलाञ्छनाविच्छिन्नचैतन्यशक्तितश्च ।
- अधुना तु लक्षणविधानाभ्यामजीवान् धर्मादींचतुरः सहकालानभिधास्याम इति प्रत्यज्ञायि वाचकमुख्येन, अतः प्रकृतप्रतिज्ञास्वतत्त्वप्रचिकाशयिषयेदमाह
सूत्रम्-अजीवकाया धर्माधर्माकाशपुद्गलाः॥ ५-१॥ टी०-उक्तलक्षणा जीवाः, ' उपयोगो लक्षणम् ' (अ० २, सू०८) इति. न जीवा अजीवाः द्रव्यभावप्राणानभिसम्बन्धादनात्तचैतन्यशक्तयः, वैशेषिकं जीवलक्षणमनुसन्धाय प्रतिषेधः क्रियते, न सत्त्वज्ञेयत्वप्रमेयत्वादि, 'नयुक्तमिवयुक्त चेत्यादिन्यायात्, अन्यथा व्योमोत्पलादिकल्पाः स्युरजीवा इत्यतो जीवद्रव्यविपर्यया भवन्त्यजीवाः । न चात्र द्रव्यवस्तुतयोविपर्यास इष्टः, यस्माद् द्रव्यत्वमेवात्रानुशास्ति शास्त्रकारः, तथा वस्तुताविपर्यासे प्रतिषेधस्य गगनेन्दीवरसमानताऽनुषज्येत धर्मादीनाम्, अतः पारिशेष्याचैतन्य
वैविध्यम् गुणविपर्ययः, स च विपर्यासरूपः प्रतिषेधो द्विधा-प्रसज्यपर्युदासभेदाद, तयोर्मूलल क्षणमिदम्
"प्रतिषेधोऽर्थनिर्दिष्ट, एकवाक्यं विधेः परः।
तद्वानस्वपदोक्तश्च, पर्युदासोऽन्यथेतरः ॥" जीवादन्योञ्जीव इति पर्युदासः सत एव वस्तुनोऽभिमतः, विधिप्रधानत्वात्, अतस्तुल्यास्तित्वेषु भावेषु चैतन्यनिषेधद्वारेण धर्मादिष्वजीवा इत्यनुशासनम् ॥ अपरे वर्णयन्ति-जीवनीमकर्मणः प्रतिषेधोत्र विवक्षितः, तच्च जीवनाम जीवनात् किल भवति, अतोऽचेतनेष्वकर्मसु च वस्तुषु तुल्येऽस्तित्वे धर्मादिष्वजीवत्वमिति । अत्र द्वयं दुष्यति, प्राक् तावद् वाचोयुक्तिरेवानुपपना जीवनामकर्मेति, नहि किश्चिज्जीवनामकमे प्रसिद्धमागमे, आयुर्हि जीवनमुच्यते, न पुनर्नामेति, तथा यद्यकर्मसु वस्तुष्वजीवत्वविधिः, सिद्धानामप्यजीवत्वप्रसङ्गः, ततश्चाजीव
१. तिप्रतिज्ञास्य तत्त्व०' इति ग-पाठः।
२ अजीवन जीवन्ति जीविष्यन्ति चेति जीवा इतिन्युत्पत्तिव्यभावप्राणधारणमाश्रित्य न कर्मणः प्रतिषेधोऽजीवे. यदा च केवलद्रव्यप्राणापेक्षया जीवनं तदा गोशब्दवत् वाच्यनियमनं वाच्यं पारिणामिकं जीवत्वं, तच्च सिद्धेऽपि, ततो नासावजीवः ऋजुसूत्रायपेक्षया तस्याजीवत्वेऽपि नैगमायपेक्षया तथात्वात् नात्र तस्याजीवत्वविवक्षा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org