SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सूत्राणि १३-१६] स्वोपज्ञभाष्य-दीकालङ्कृतम् ३१३ केनाप्यभिप्रायेण । आगमस्तावदयम-"सेवठसिद्धदेवाणं भंते ! केवतियं कालं ठिई पण्णता ? गोयमा! अजहण्णुक्कोसेणं तित्तीसं सागरोवमाई ठिई पन्नत्ता" (प्रज्ञा०प० ४, सू०१०२)। सौधर्मे देवीनां परिगृहीतानां जघन्येन पल्योपममुत्कर्षेण सप्त पल्योपमानि, अपरिगृहीतानां जघन्येन पल्योपममुत्कर्षेण तु पञ्चाशत् पल्योपमानि, ऐशाने तु परिगृहीतदेवीनां सातिरेकं पल्योपममुत्कर्षेण नव पल्योपमानि, अपरिगृहीतानां जघन्यन सातिरेकं पल्योपममुत्कर्षण पञ्चपञ्चाशत् पल्योपमानीति ॥ परतः परतः पूर्वा पूर्वानन्तरेत्यभिसम्बन्धुकामोत्राप्रकृतानामपि लघ्वर्थ पुनर्वक्तव्यगौरवभीत्याऽवतारयति सूत्रम्-नारकाणां च द्वितीयादिषु ॥४-४३ ॥ भा०-नारकाणां च द्वितीयादिषु भूमिषु पूर्वा पूर्वो परा स्थितिरनन्तरा परतः परतोऽपरा भवति । तद्यथा-रत्नप्रभायां नारकाणामेकं सागरोपमै परा र स्थिीतः, सा जघन्या शर्कराप्रभायाम् । त्रीणि सागरोपमाणि " परा स्थितिः शर्कराप्रभायां, सा जघन्या वालुकामभायामित्येवं सर्यासु । तमःप्रभायां द्वाविंशतिः सागरोपमाणि परा स्थितिः साजघन्या महात. माप्रभायामिति ॥ ४३ ॥ टी०-सुज्ञानमेव भाष्यं प्रायः, सप्तम्यां चतुएं नरकेषु जघन्या द्वाविंशतिसागरोपमा स्थितिरुत्कृष्टा त्रयस्त्रिंशत् सागरोपमाणि, अप्रतिष्ठाने तु त्रयस्त्रिंशत् सागरोपमाण्यजघन्योत्कटेति ॥४३॥ अथ प्रथमायां कथं जघन्या प्रतिपत्तव्येत्याह सूत्रम्-दश वर्षसहस्राणि प्रथमायाम् ॥ ४-४४ ॥ भा०-प्रथमायां भूमौ नारकाणां दश वर्षसहस्राणि जघन्या स्थितिः ॥४४॥ टी०-दश वर्षसहस्राणि प्रथमायां प्रथमवसुधानारकाणां स्थितिर्जघन्यैतावतीति ४४ सूत्रम्-भवनेषु च ॥४-४५ ॥ भा०-भवनवासिनां दश वर्षसहस्राणि जघन्या स्थितिरिति ॥ ४५ ॥ टी०-भवनवासिनामप्येषैव जघन्येति ॥ ४५ ॥ सूत्रम्-व्यन्तराणां च ॥४-४६ ॥ भा०-व्यन्तराणां च देवानां दश वर्षसहस्राणि जघन्या स्थितिः॥४६ ।। टी०-एषामपि जघन्या भवनवासिदेववद द्रष्टव्येति ॥ ४६॥ १ सर्वार्थसिद्धदेवानां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! अजघन्मोत्कर्षेण त्रयस्त्रिंशत् सागरोपमाणि स्थितिः प्रहप्ता। ४. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy