SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३१२ तत्वार्थाधिगमसूत्रम् [ अध्यायः ४ टी-अबाहेत्यादिसम्बन्धग्रन्थः । नृतिरश्वां परापरे स्थिती व्याख्याते, औपपातिकानां पुनारकदेवानां किमेकैवोत्कृष्टा स्थितिरितरा नास्ति ? । अस्तीत्याह सूत्रम्-अपरा पल्योपममधिकं च ॥ ४-३९ ॥ __ भा०-सौधर्मादिष्वेव यथाक्रममपरा स्थितिः पल्योपममधिकं च । अपरा जघन्या निकृष्टेत्यर्थः । परा प्रकृष्टा उत्कृष्टत्यनर्थान्तरम् । तत्र सौधर्मेऽपरा स्थितिः पल्योपमम्, ऐशाने पल्योपममधिकं च ॥ ३९॥ टी-सौधर्मादिषु यथाक्रममित्येतदनुवर्तते, अपरा जघन्या, सौधर्मे कल्पे पल्योपममायुषः स्थितिर्भवति, ऐशाने तदेव पल्योपममधिकं कियतापि विशेषेण जघन्या स्थितिरिति । सूत्रम्-सागरोपमे ॥ ४-४० ॥ भा०-सनत्कुमारे अपरा स्थिति सागरोपमे ।। ४० ॥ टी०-सनत्कुमारे द्वे सागरोपमे जघन्या स्थितिः॥४०॥ सूत्रम्-अधिके च ॥ ४-४१ ॥ भा०-माहेन्द्रे जघन्या स्थितिरधिके हे सागरोपमे ॥ ४१॥ टी०-द्वे सागरोपमे अधिके जघन्या स्थितिर्माहेन्द्रे ॥४१॥ सूत्रम्-परतः परतः पूर्वा पूर्वाऽनन्तरा ।। ४-४२॥ भा०-माहेन्द्रात् परतः पूर्वा परा(पूर्वा)ऽनन्तरा जघन्या स्थितिर्भवति । तद्यथा-माहेन्द्रे परा स्थितिर्विशेषाधिकानि सप्त सागरोपमाणि सा ब्रह्मलोके जघन्या स्थितिर्भवति । ब्रह्मलोके दश सागरोपमाणि परा स्थितिः सा लान्तके जघन्या। एवमा सर्वार्थसिद्धादिति । [ विजयादिषु चतुर्षु परा स्थितिस्त्रयस्त्रिंशत् सागरोपमाणि, साऽजघन्योत्कृष्टा सर्वार्थसिद्ध इति ] ॥ ४२ ॥ ___टी--परतः परतः पूर्वा पूर्वानन्तरा ब्रह्मलोकादिषु पूर्वकल्पस्थितिरुत्कृष्टा सोपरितनानन्तरकल्पे जघन्या वेदितव्या । तद्यथा-माहेन्द्रे सप्त सागरोपमाणि विशेषाधिकानि परा स्थितिः सा ब्रह्मलोके जघन्या । ब्रह्मलोके दश सागरोपमाणि परा सा लान्तकेजघन्येत्येवं शेषेष्वप्यायोजनीया यावत् सर्वार्थसिद्धविमानम्।तत्र विजयादिषु चतुर्थे जघन्येनैकत्रिंशदुत्कर्षेण द्वात्रिंशत्, सर्वार्थसिद्ध त्रयस्त्रिंशत् सागरोपमाण्यजघन्योत्कृष्टा स्थितिः। भाष्यकारेण तु सर्वार्थसिद्धेऽपि जघन्या द्वात्रिंशत् सागरोपमाण्यधीता, तन्न विद्मः यद्यपि वर्जन प्रसङ्गे प्राक् चतुर्थ्याः प्राक् प्रैवेयकेभ्य इत्यादिवत् प्राक्शब्दः प्रयुज्यते, समादानप्रसङ्गे आचतुर्थ्य इत्यादिवत् आडा निर्देश इत्यत्र आङा निर्देशात् सर्वार्थसिद्धस्यापि ग्रहणमापन्नमिति वृत्त्यभिप्रायः, परं प्राग्अजघन्योत्कृतया त्रयस्त्रिंशतः सागरोपमाणां कथनात् न तत्र जघन्यस्थितिरन्या भाष्यकृतोऽभिप्रेता। एकपुत्रस्य ज्येष्ठकनिष्ठताबदतु अनाडोक्तिः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy