SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३०९ सूत्राणि २९-३१] स्वोपज्ञभाष्य-टीकालङ्कृतम् भ्यश्च गर्भव्युत्क्रान्तिभ्यः सम्मूछेनजेभ्यश्च ये शेषाः एकद्वित्रिचतुष्पश्चेन्द्रियास्ते सर्वेऽपि तिर्यग्योनिव्यपदेशभाजो भवन्ति । देवादिवत् तदाधारनिर्देश इति चेत्, न, सर्वलोकव्यापिस्वात्, तिर्यग्लोके चैते भूयांस इति तिर्यग्योनिसंज्ञा प्रतिपत्तव्येति ॥ २८ ॥ भा०-अत्राह-तिर्यग्योनिमनुष्याणां स्थितिरुक्ता । अथ देवानां का स्थितिरिति । अत्रोच्यते टी०-अत्राह-तिर्यग्योनिमनुष्याणामित्यादिपातनिकाग्रन्थः । तृतीयाध्यायपरिसमाप्तौ नृतिरश्चां परापरस्थिती गदिते । अथ देवानां भवनवासिप्रभूतीनां का स्थितिरायुष इति । अत्रोच्यते सूत्रम्-स्थितिः ॥४-२९॥ भा०—स्थितिरित्यत ऊर्ध्व वक्ष्यते ॥ २९ ॥ टी-स्थितिरित्यत ऊर्च वक्ष्यत इति भाष्यम् । इतः प्रभृति स्थितिरित्यधिक्रियते, सा तु द्वयी जघन्योत्कृष्टभेदादिति, यद्येवमुभयसम्भवे भवनवासिनामेव तावदादिनिर्देशमा जामुच्यतां का परा स्थितिरिति, इमेऽभिदध्महे सत्यपि तेषां विकल्पबहुत्वे महामन्दरावधेदेक्षिणोत्तरार्धाधिपतिविभाग एवाद्रियते ॥ २९ ॥ सूत्रम्-भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥ ४-३० ॥ भवनासिनो भा०-भवनेष तावद् भवनवासिनां दक्षिणार्धाधिपतीनां स्थितिः पल्योपममध्यर्धं परा स्थितिः, द्वयोर्यथोक्तयोर्भवनवासीन्द्रयोः पूर्वो दक्षिणार्धाधिपतिः पर उत्तरार्धाधिपतिः ॥३०॥ टी-भवनेष दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम्, चमरं विहायासुरनिकायपरिघृढं शेषभवनवासिदक्षिणार्धाधिपतीनामर्धाधिकं पल्योपमं स्थितिरायुषो वेदितव्या, उक्तलक्षणं पल्योपमम्, अधिकमधमस्मिंस्तदिदमध्यर्धम् , बहुव्रीहिणा पल्योपमाभिसम्बन्धः, सन्देहापनोदनायेदमाख्यायते-पूर्वनिर्दिष्टयोदयोर्भवनवासीन्द्रयोः प्रथमनिर्दिष्टो यः स दक्षिणार्धाधिपतिरवसेयः, पश्चान्निर्दिष्ट उत्तरार्धाधिपतिरिति ॥ ३०॥ अथोत्तरार्धाधिपतीनामायुषः का स्थितिरित्याह सूत्रम्-शेषाणां पादोने ॥ ४-३१ ॥ भा०-शेषाणां भवनवासिष्वधिपतीनां (शेषाणां) द्वे पल्योपमे पादोने परा स्थितिः। के च शेषाः? उत्तरार्धाधिपतय इति ॥ ३१ ॥ १' द्वयोः ' इत्यधिको घ-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy