________________
३०८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ अनुत्तरदेवानां टी--विजयादिष्वित्यादि भाष्यम् । विजयादिषु चतुर्पु विमा
भवोच्छेदः नेषु, अन्यविजयादिव्यावृत्त्यर्थमनुत्तरग्रहणम्, अनुत्तरशब्दस्पर्शादियोगा. दनुत्तरविमानानि तेषु देवा विचरमा भवन्ति, द्विचरमत्वं स्पष्टयति-ततो विजयादिभ्यश्युताः परम्-उत्कर्षेण द्विर्जनित्वा मनुष्येषु सिद्धिमनुगच्छन्ति, विजयादिविमानाच्च्युतो मनुष्यः पुनरपि विजयादिषु देवस्ततच्युतो मनुष्यः सन् सिध्यतीति । अपरे वर्णयन्ति-विजयादिभ्यश्च्युताः परतो मनुष्याः सर्वार्थसिद्धजन्मलाभं लब्ध्वा तृतीये भवे सिध्यन्तीति द्विचरमाः । एतत्त्वयुक्तं व्याख्यानम् । सर्वार्थसिद्धविमानोत्पादे सति तत्प्रच्युतिसमनन्तरजन्मनि सिद्धिगतिश्रवणात् कोऽतिशयस्तत्र विजयादीनामिति । सर्वार्थसिद्धविमानवासिनस्तु सकृन्जनित्वा मनुष्येषु सिद्धिमधिगच्छन्ति-मुक्तिमासादयन्ति, सर्वे चानुत्तरोपपातिनः किल देवाः प्रतनुकर्माणो भवन्तीति । यथाऽऽहागमे-"अणुत्तरोववादियाणं देवाणं ! भंते ! केवइएणं कम्मावसेसेणं अणुत्तरोववादियत्तेण उववन्ना ? गोयमा ! जावतिअन्नं छठभत्तीए समणे निग्गंथे कम्मं निजरेइ एवतिएणं कम्मावसेसेण अणुत्तरोववाइयत्ताए उववन्ना"। शेषास्तु भजनीयाः । वैमानिकप्रतिपत्त्यर्थ वा शेषग्रहणम् । अथवा समस्तदेवप्रतिपादनार्थमध्यवसातव्यम्, अतः शेषाः कदाचित् कचित् सकृद् द्वित्रिचतुःप्रभृति वा मनुष्येषु जन्मासाद्य सिद्धयन्तीति ॥ २७॥
भा०-अत्राह उक्तं भवता-जीवस्यौदयिकेषु भावेषु तिर्यतिर्यप्रस्तावः योनिगतिरिति, तथा स्थितौ 'तिर्यग्योनीनां च ' (अ० ३, सू० १८) इति, आस्रवेषु 'माया तैर्यग्योनस्य' (अ०६, सू० १७) इति । तत्के तिर्यग्योनय इति ? । अत्रोच्यते___टी–अत्राह-उक्तं भवतेत्यादिसम्बन्धग्रन्थः । द्वितीयेऽध्याये (मू०६) औदयिकभावव्याख्याप्रस्तावे तिर्यग्योनिगतिरुक्ता, तृतीयाध्यायपरिसमाप्तौ (सू० १८ ) तिर्य. ग्योनिजानां चेति स्थितिरायुषोऽभिहिता, षष्ठे चास्रवप्रस्तावे (सू० १७ ) माया तैर्यग्योनस्येति वक्ष्यते, तत् के तिर्यग्योनय इति?। अत्रोच्यतेसूत्रम्-औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥४-२८ ॥
भा०-औपपातिकेभ्यश्च नारकदेवेभ्यो मनुष्येभ्यश्च यथोक्तेतिरश्चा निदशा भ्यः शेषा एकेन्द्रियादयस्तिर्यग्योनयो भवन्ति ॥ २८ ॥
टी०-औपपातिकेभ्यश्चेत्यादि भाष्यम् । औपैपातिका नारकदेवास्तेभ्यो मनुष्य१ अनुत्तरोपपातिका देवा भदन्त ! कतिपयेन कर्मावशेषेण अनुत्तरोपपातिकत्वेन उपपन्नाः ? गौतम ! यावत् षष्ठभक्तिकः श्रमणः निर्ग्रन्थः कर्म निर्जरयति एतावता कर्मावशेषेण अनुत्तरोपपातिकतया उपपन्नाः ( भग०)।
२ 'उपपातिका' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org