________________
सूत्रे २६-२७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३०७ रणाग्निज्वालाकीर्णो वा लोकस्तदन्तवर्तित्वात् लोकान्तिकाः कर्मक्षयाभ्यासभावाच्च । ब्रह्मलोकं परिवृत्याष्टासु दिश्वष्टविकल्पा भवन्ति । अत्र दिग्ग्रहणं सामान्येन दिग्विदिक्प्रतिपत्यर्थम् । ब्रह्मलोकाऽधोव्यवस्थितरिष्ठविमानप्रस्तारवर्तिन्योऽक्षपाटकसंस्थिता अरुणवरसागरे समुद्भूता अतिबहलतमःकायप्रभवाः कृष्णराज्योऽष्टौ भवन्ति, यासां मध्येन प्रयान् देवोऽप्येकः सङ्क्षोभमापद्यतेति । तत्र द्वयोर्द्वयोः कृष्णराज्योर्मध्यभाग एते भवन्ति । स्थापना ॥ २५॥
तद्यथासूत्रम्-सारस्वतादित्यवन्यरुणगर्दतोयतुषिताव्योबाधमरुतो
ऽरिष्ठाश्च ॥४-२६॥ भा०--एते सारस्वतादयोऽष्टविधा देवा ब्रह्मलोकस्य पूर्वोत्तरादिषु दिक्षु प्रदक्षिणं भवन्ति यथासङख्यम् । तद्यथा-पूर्वोत्तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्या इत्येवं शेषाः ॥२६॥ ___टी०--विमानसाहचर्याद् देवानां सारस्वतादिसंज्ञाः । एते सारस्वतादयो. अष्टविधा देवा इत्यादि सुगमम् । पूर्वोत्तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्याः, लोकान्तिकानां व्य.
..... पूर्वदक्षिणस्यां वह्नयः, दक्षिणस्यामरुणाः, दक्षिणापरस्यां गर्दतोयाः, अप०५० रस्यां तुषिताः, अपरोत्तरस्यामव्याबाधाः, उत्तरस्यां मरुतः, मध्येऽरिष्ठाः॥
नन्वेवमेते नव भेदा भवन्ति, भाष्यकृता चाष्टविधा इति मुद्रिताः । उच्यते-लोकान्तवर्तिन एतेऽष्टभेदाः मरिणोपात्ताः, रिष्ठविमानप्रस्तारवर्तिभिर्नवधा भवन्तीत्यदोषः। आगमे तु नवधैवाधीता इति ॥एवमयं कार्मणशरीरप्रणालिकयास्रवापेक्षयाऽऽपादितसुखदुःखानां भव्याभव्यभेदाहितद्वैविध्यानां प्राणिनां संसारोऽनादिरपर्यवसानः, अन्येषां मोहोपशमनक्षपणं प्रत्यादृतानामप्रतिपतितसम्यग्दर्शनानां परीतविषयत्वात् सप्ताष्टानि भवग्रहणान्युत्कर्षणानुबन्धीनि, जघन्येन द्विवाण्यतिवाह्योच्छिद्यते, इत्यविशेष सत्यन्ये भाज्याः ॥ २६ ॥ अमी पुनरुत्कर्षेण
सूत्रम्-विजयादिषु द्विचरमाः ॥ ४-२७ ॥ टी०--द्वौ चरमावेषां द्विचरमाः । चरमशब्द उक्तार्थः, चरमद्विदेहा इतियावत् । चरमत्वमेकस्मिन्निति चेत्, न, औपचारिकत्वात् । __भा०-विजयादिष्वनुत्तरेषु विमानेषु देवा द्विचरमा भवन्ति । विचरमा इति ततश्चयुताः परं दिर्जेनित्वा सिध्यन्तीति । सकृत् सर्वार्थसिद्धमहाविमानवासिनः, शेषास्तु भजनीयाः ॥ २७ ॥
१'व्याबाधारिष्टामरुतः' इति क--पादः ।
घस्था
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org