________________
तत्वार्थाधिगमसूत्रम्
[ अध्याय: 8
भा०- - अत्राह किं देवाः सर्व एव सम्यग्दृष्टयो यद् भगवतां परमर्षीणामर्हतां जन्मादिषु प्रमुदिता भवन्तीति । अत्रोच्यते-न सर्वे सम्यग्दृष्टयः, किन्तु सम्यग्दृष्टयः सद्धर्म बहुमानादेव तत्र प्रमुदिता भवन्त्यभिगदेवानां दृष्टिः च्छन्ति च । मिथ्यादृष्टयोऽपि च लोकचित्तानुरोधादिन्द्रानुवृत्त्या परस्परदर्शनात् पूर्वानुचरितमिति च प्रमोदं भजन्तेऽभिगच्छन्ति च । लौकान्तिकास्तु सर्व एव विशुद्धभावाः सद्धर्मबहुमानात् संसारदुःखार्तानां च सत्त्वानामनुकम्पया भगवतां परमर्षीणामर्हतां जन्मादिषु विशेषतः प्रमुदिता भवन्ति । अभिनिष्क्रमणाय च कृतसङ्कल्पान् भगवतोऽभिगम्य प्रहृष्टमनसः स्तुवन्ति सभाजयन्ति चेति ॥ २४ ॥
अत्राह - के पुनर्लोकान्तिकाः कतिविधा वेति? अत्रोच्यते
३०६
टी० – अत्राह - किं देवाः सर्व एवेति भाष्यम् । कल्पवासिनस्तावत् सुखासक्ता अपि सन्तो भगवतां त्रिलोकबन्धूनामर्हतां जन्मनिष्क्रमणज्ञानोत्पत्तिमहासमवसरण निर्वाणकालेष्वनुभावतो ज्ञानाच्चासीनाः शयिताः स्थिताः प्रस्थिता वा सहसैवासन चलनाद् दर्शन विशुद्धिभक्त्यनुवृत्त्यनुरागानन्यसदृशतीर्थकर नामकर्मोदय विभूतिजनितकुतूहल सद्धर्मबहुमान संशयच्छेदापूर्वप्रश्नानुभावाद्यनेककारण नोदिताः प्रायस्तीर्थकरपदान्तिक मत्यन्तै कान्तहितमभ्येत्य स्तुतिवन्दनपूजनोपासनधर्मश्रवणैः स्वपर श्रद्धासंवेगजननैरात्मानमपनीतकल्मषं कुर्वन्ति । ग्रैवेयकादयस्तु यथावस्थिता व कायवाङ्मनोभिरभ्युत्थानाञ्जलिप्रणिपाततथागुणवचनैकाग्र्यभावनाभिर्भगवतोऽर्हतो नमस्यन्ति । न च सर्वे देवाः सम्यग्दृष्टयः, किन्तु मिथ्यादृष्टयोऽपि वि(अभि) हितानेककारणाः पूजामर्हतां विदधत इति । लौकान्तिकास्तु सर्वे सम्यग्दृष्टयो ऽवश्यं चार्हच्चरणमूलमायान्त्यर्हदादिसंवेगप्रशंसार्थमात्महितार्थ चेति ॥ २४ ॥
अत्राहेत्यादिपात निकाग्रन्थः । कस्मिन् पुनः कल्पे विमाने वा लोकान्तिका देवाः प्रतिवसन्ति कतिविधा [ भेदा ] वा इति १ । अत्रोच्यते
सूत्रम् - ब्रह्मलोकालया लोकान्तिकाः || ४-२५ ।।
भा०- - ब्रह्मलोकालया एव लोकान्तिका भवन्ति नान्यकल्पेषु, नापि परतः । ब्रह्मलोकं परिवृत्याष्टासु दिक्षु अष्टविकल्पा भवन्ति ॥ २५ ॥ तद्यथाटी० - ब्रह्मलोकालया एव लोकान्तिका भवन्तीत्यादि भाष्यम् । सामर्थ्यलभ्यमेवकारं दर्शयति, अवधारणफलं च, नान्यकल्पेषु नापि परतो ग्रैवेयकादिष्विति । लोकान्ते भवाः लोकान्तिकाः, अत्र प्रस्तुतत्वात् ब्रह्मलोक एव परिगृह्यते, तदन्तनिवासिनो लोकान्तिकाः, सर्वब्रह्मलोकदेवानां लोकान्तिकत्वप्रसङ्ग इति चेत्, न, लोकान्तोपश्लेषात्, जराम१ 'लौका ०' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org