________________
सूत्रे २३-२४ ] स्वोपज्ञभाष्य टीकालङ्कृतम्
३०५ पाण्मासिकी भवति, ततः परं विच्छिद्यन्तेऽन्तर्मुहूर्त, ततः पुनरनुवर्तते । उपपातोऽधुना, अच्युतात् परमन्यलिङ्गेन नोपपातोऽस्ति मिथ्यादृष्टेः, स्वलिङ्गिनामिति साधुवेषधारिणां भिन्नद्शनानां मिथ्यादृशां यावदुपरितनौवेयाणि तावदुपपातः, सम्यग्दृशस्तु साधोः सौधर्मादारभ्य यावत सर्वार्थसिद्धविमानं तावदुपपातः । अयं चापरो नियमः-ब्रह्मलोकादधश्चतुर्दशपूर्वधरो नोपपद्यते, परतस्तु सर्वार्थसिद्धविमानावधिक उत्पादः । शेषं सुज्ञानम् ॥ २२ ॥
अत्राह-त्रयाणामित्यादिसम्बन्धग्रन्थः । भवनवासिव्यन्तरज्योतिष्काणां द्रव्यले. श्यानियमोऽभिहितः, वैमानिकानां तु केषां का द्रव्यलेश्या ? तत आह
सूत्रम्-पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥ ४-२३ ॥ भा०-उपर्युपरि वैमानिकाः सौधर्मादिषु द्वयोस्त्रिषु शेषेषु च पीतपद्मशुक्ललेश्या भवन्ति यथासङ्ख्यम् । द्वयोः पीतलेश्याः सौधर्मेशानयोः, त्रिषु पद्मलेश्याः सनत्कुमारमाहेन्द्रब्रह्मलोकेषु । शेषेषु लान्तकादिषु आ सर्वार्थसिद्धाच्छु
क्ललेश्याः । उपर्युपरि तु विशुद्धतरेत्युक्तम् ॥ २३ ॥ वैमानिकानां
अत्राह-उक्तं भवता-द्विविधा वैमानिका देवाः-कल्पोपपन्नाः - कल्पातीताश्च (सू०१८) इति । ततः के कल्पा इत्यत्रोच्यतेटी-पीतपद्मशुक्ललेल्या वित्रिशेषेषु। पूर्वत्र बहुव्रीहिरुत्तरत्र द्वन्द्वः, यथासङ्ख्यं चाभिसम्बन्धः कार्यः । उपर्युपरि वैमानिका इत्यादि भाष्यम् । समानत्वे सत्यप्युपर्युपरि विशुद्धिप्रकर्षः, सौधर्मेशानयोः कनकवच्छुचयः सुराः, सनत्कुमारमाहेन्द्रब्रह्मलोकेषु पद्मदलत्विषः । लान्तकादिषु धवलरुचयः सर्वार्थसिद्धपर्यवसानेषु, भावलेश्याः पुनरध्यवसायरूपत्वाद षडपि वैमानिकानां सन्तीत्यवगन्तव्यम् । अपरे वर्णयन्ति-भावलेश्यानियमोऽयम्, स तु न सुष्ठु सङ्गच्छत इति नाद्रियते, एकप्रदेशे सर्वदेवानां लेश्याविधानं किमिति न कृतं चेत्, तन, सुखप्रबोधत्वाद् व्यतिकरनिवृत्यर्थत्वाञ्चेति ॥२३॥
अत्राह-उक्तं भवतेत्यादिपातनिकाग्रन्थः । द्विविधा वैमानिका इति प्रागभिहितकल्पवासिनः कल्पातीताश्च, तत् के पुनः कल्पा इति ? अत्रोच्यते
सूत्रम्-प्राग् अवेयकेभ्यः कल्पाः ॥ ४-२४ ॥ भा०—प्राग ग्रैवेयकेभ्यः कल्पा भवन्ति, सौधर्मादय आरणाच्युतपर्यन्ता इत्यर्थः । अतोऽन्ये कल्पातीताः ॥ २४ ॥
टी०-विविधविमानाश्रया व्याख्यातसङ्ख्याविशेषा अवेयकेभ्य आरात कल्पा भवन्ति, शेषविषयसम्बन्धे दिग्लक्षणा पश्चमी, कल्पशब्द उक्तार्थः । इन्द्रादिदशकल्पनात्मकत्वात् कल्पाः, सौधर्माद्योऽच्युतपर्यवसाना इति ॥शेषाः कल्पातीता इति ॥ २४ ॥
१'रुचः' इति क-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org