________________
३०४ तत्वार्थाधिगमसूत्रम्
[ अध्यायः ४ न्यस्थितीनां देवानां सप्तस्तोकः आहारश्चतुर्थकालः । पल्योपमस्थितीनामन्तर्दिवदेवानामुच्छ्वा- सस्योच्छामो दिवसपृथत्तवस्याहारः । यस्य यावन्ति सागरोप
साहारी माणि स्थितिस्तस्य तावत्सु अर्धमासेषु उच्छासः, तावत्स्वव वर्षसहस्रेष्वाहारः॥ ____टी–दश वर्षसहस्राणि येषां स्थितिस्तेषां स्तोकसप्तकातिक्रान्तावुच्छासः एकदिवसा. न्तरितश्चाहाराभिलाषः, पल्योपमस्थितीनां दिवसाभ्यन्तरे समुच्छासो दिवसपृथत्तव. स्याहारः, द्विप्रभृत्यानवभ्यः पृथक्त्वसंज्ञा पारिभाषिकी । यस्य यावन्तीत्यादि सुज्ञानम् ॥
भा०-देवानां सवेदनाः प्रायेण भवन्ति, न कदाचिदसवेदनाः । यदि चासद्वेदना भवन्ति ततोऽन्तर्मुहूर्तमेव भवन्ति, न परतः, अनुबद्धसद्धेदनास्तूत्कृष्टेन षण्मासान् भवन्ति ॥ उपपातः। आरणाच्युतादूर्ध्वमन्यतीर्थानामुपपातो न भवति । स्वलिङ्गिनां भिन्नदर्शनानामा अवेयकेभ्य उपपातः । अन्यस्य सम्यग्दृष्टः संयतस्य भंजनीयं आ सर्वार्थसिद्धात्। ब्रह्मलोकादूर्ध्वमा सर्वार्थसिद्धाचतुर्दशपूर्वधराणामि
_ ति ॥ अनुभावो विमानानां सिद्धक्षेत्रस्य चाकाशे निरालम्बस्थितानुभावविचारः
पा तो लोकस्थितिरेव हेतुः । लोकस्थितिर्लोकानुभावो लोकस्वभावो
जगद्धर्मोऽनादिपरिणामसन्ततिरित्यर्थः । सर्वे च देवेन्द्रा ग्रैवेयादिषु च देवा भगवतां परमर्षीणामहतां जन्माभिषेकनिष्क्रमणज्ञानोत्पत्तिमहासमवसरणनिर्वाणकालेष्वासीनाः शयिताः स्थिता वा सहसवासनशयनस्थानाश्रयैः प्रचलन्ति, शुभकर्मफलोदयाल्लोकानुभावत एव वा। ततो जनितोपयोगास्तां भगवतामनन्यसदृशीं तीर्थकरनामकर्मोद्भवां धर्मविभूतिमवधिनाऽऽलोक्य सञ्जातेंवेगाः सद्धर्मबहुमानाः केचिदागत्य भगवत्पादमूलं स्तुतिवन्दनोपासनहितश्रवणैरात्मानुग्रहमवाप्नुवन्ति । केचिदपि तत्रस्था एव प्रत्युत्थानाञ्जलिप्रणिपातनमस्कारोपहारैः परमसंविनाः सद्धर्मानुरागोत्फुल्लनयनवदनाः समभ्यर्चयन्ति ॥ २२॥
अब्राह-त्रयाणां देवनिकायानां लेश्यानियमोऽभिहितः । अथ वैमानिकानां केषां का लेश्या इति? । अत्रोच्यते
टी०-देवानां सद्धेदना इत्यादि भाष्यम् । यदा नाम केनचिनिमित्तेनाशुभा वेदना देवानां प्रादुरस्ति तदाऽन्तमुहूर्तमेव स्यात् , ततः परं नानुबध्नाति, सद्वेदनापि सन्ततं
देवा
१ 'सप्तसु स्तोकेषु' इति घ-पाठः । २ भजनीयः' इति क-पाठः। ३ 'द्धि.' इति घ-पाठः । ४०च्य.' इति घ-पाठः। ५ ' तसवेगाः' इति घ-पाठः । ६'मानात् ' इति घ-पाठः । ७ 'त्युपस्थापना' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org