SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ वाव सूत्रं २२] - स्वोपज्ञभाष्य-टीकालङ्कृतम् ३०३ लिकाप्रविष्टानां, पुष्पावकीर्णानां सप्त लक्षा नवनवतिसहस्राणि शतं च लिका . षड्विंशत्युत्तरम्, एकत्रोष्टौ लक्षाः, ब्रह्मलोकेऽष्टौ शतानि चतुस्त्रिंशदुपावकीर्णानां च तराण्यावलिकाप्रविष्टानां, पुष्पावकीर्णानां तिस्रो लक्षा नवनवतिसहस्रा. विमानाना सङ्ख्या णि चत्वारि शतानि पञ्चदशोत्तराणि(१), एकत्र चैतखो लक्षाः, लान्तके पश्च शतानि पश्चाशीत्यधिकान्यावलिकाप्रविष्टानां, पुष्पावकीर्णानामेकोनपश्चाशत्सहस्राणि चत्वारि शतानि पञ्चदशोत्तराणि,एकत्र पञ्चाशत् सहस्राणि, महाशुक्रे त्रीणि शतानि षण्णवत्यधिकान्यावलिकाप्रविष्टानां, पुष्पावकीर्णानामेकोनचत्वारिंशत्सहस्राणि षट् च शतानि चतुरुत्तराणि, एकत्रं चत्वारिंशत् सहस्राणीति, सहस्रारे त्रीणि शतानि द्वात्रिंशदधिकान्यावलिकाप्रविष्टानां, पुष्पावकीर्णानां षट्पञ्चाशच्छतान्यष्टषष्ट्यधिकानि, एकत्र पेट् सहस्राणि, आनतप्राणतयोरावलिकाबद्धानां शतद्वयमष्टषष्ट्यधिकं, पुष्पावकीणोंनां द्वात्रिंशदुत्तरं शतम्, एकत्र चत्वारि शतानि, आरणाच्युतयोरावलिकावबद्धानां द्वे शते चतुरुत्तरे,पुष्पावकीर्णकानां षण्णवतिः, एकत्र त्रीणि शतानि, अधस्तनौवेयकेवावलिकाप्रविष्टानामेकादशोत्तरं शतं, पुष्पावकी र्णानि तु न सन्त्येव, मध्यमग्रैवेयकेषु पञ्चसप्ततिरावलिकाप्रविष्टानि, पुष्पावकीर्णानि द्वात्रिंशद्, एकत्र सप्तोत्तरं शतम, उपरितनग्रैवेयकेष्वेकोनचत्वारिंशदावलिकाप्रविष्टानि, पुष्पावकीणेकानामेकषष्टिः, एकत्र शेतं च, अनुत्तरविमानानि तु पश्चैव ॥ इदानीं सकलवैमानिकविमानपरिसङ्ख्या भा०-एवमूर्ध्वलोके वैमानिकानां सर्वविमानपरिसङ्ख्या चतुरशीतिः शतसहस्राणि सप्तनवतिश्च सहस्राणि त्रयोविंशानीति (८४९७०२३)।स्थानपरिवारशक्तिविषयसम्पस्थितिष्वल्पाभिमानाः परमसुखभागिन उपर्युपरीति॥२२॥ टी०-चतुरशीतिर्लक्षाः सप्तनवतिः सहस्राणि त्रयोविंशतिश्च विमानानीत्येवमुपर्युपरि हीनतरपरिग्रहा भवन्ति । अधुनाऽभिमानतो हीना इति प्रतिपादयति-अहंकारपर्ययोऽभिमानः, स्थानं कल्पादि, परिवारो देवाः देव्यश्च, शक्तिः सामर्थ्यमचिन्त्यम्, विषयोऽवधेरिन्द्रियाणां वा, सम्पद-विभूतिः, स्थितिरायुष इयत्ता, अथवा विषयसम्पद-शब्दा दिसमृद्धिः, इत्येतासु परिपेलवगर्वाः परमसुखभाजः उपर्युपरीति ॥ २२॥ सूत्रेणानुपात्तमुपर्युपरिहीनमुच्छासाडुपन्यस्यति भाष्यकारःभा०-उच्छ्वासाहारवेदनोपपातानुभावतश्च साध्याः । उच्छ्वासः सर्वजघ१ ८७४ +७९९१२६८०००००. २ ८३४+३९९१६६ ( टीका-पाठश्चिन्तनीयः )=४००००.. ३ ५८५ +४९४१५-५००००. ४ ३९६ +३९६०४ =४००००. ५. ३३२ +५६६८-६०००. ६ २६८ +१३२८४००. ७ २०४+९६३००. ८ ७५+३२%D१०७. ९ ३९+६१-१००. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy