SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ प्रस्ताराः ३०२ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १ भा०-सौधर्मेशानयोः कल्पयोर्देवानां शरीरोच्छायः सप्त रत्नयः । उपर्युपरि व्योईयोरेकैका रनिहींना आ सहस्रारात् । आनतादिषु तिस्रः । अवेयकेषु है । अनुत्तरे एका इति ॥ टी-सौधर्मेशानयोः सप्तहस्तवपुषो देवाः, उपर्युपरि बयोयोरेकैका रनिहीना आ सहस्रारात् द्वयोः कल्पयोरेकैकः शयोऽपैति, सनत्कुमारमाहेन्द्रयोः षड् रत्नयः, वैमानिकदेवानांश ... ब्रह्मलोकलान्तकयोः पञ्च रत्नयः, महाशुक्रसहस्रारयोश्चतुर्हस्ताः,आनतप्राशाया णतारणाच्युतेषु हस्तत्रयोच्छिताः, अवेयकेषु हस्तद्वयम्, अनुत्तरविमान वासिनामेका रनिरिति॥ अधुना परिग्रहहानिरुपदिश्यते। तत्र सौधर्मेशानयोर्विमानप्रस्तारास्त्रयोदश, सनत्कुमारमाहेन्द्रयोदश, ब्रह्मलोके षट्, लान्तके पश्च, महाशुक्रे चत्वारः, सहस्रारेऽपि चत्वारः, र आनतप्राणतयोश्चत्वारः, आरणाच्युतयोश्चत्वारः, अधस्तनौवेयकेषु त्रयः, ना मध्यमग्रैवेयकेषु त्रयः, उपरितनौवेयकेषु त्रयः, उपरि पञ्चसु विमाने __ष्वेकः, वृत्तास्तत्र द्विषष्टिविमानेन्द्रकास्तानङ्गीकृत्यैव दिक्ष्वावलिकाः प्रवृत्ताः, न विदिक्षु, सौधर्मेशानयोश्च त्रयोदशानां प्रस्ताराणामधस्तनप्रस्तारे द्विषष्टिविमानप्रमाणैवावलिका, व्यत्रचतुरस्रक्रमेण चतुर्दिक्षु, ततः परम्पर्युपरि प्रतिप्रस्तारं सर्वत्र विमानचतुष्कहान्या तावदारुह्यते यावत् पश्च विमानानि सर्वोपरीति, यावन्ति च लोके सम्भवन्तीष्टनामानि वैमानिकानामेतेषु प्रस्तारेषु भवन्ति । तेषां परिसङ्ख्यानमिदम् भा०-सौधर्मे विमानानां द्वात्रिंशच्छतसहस्राणि । ऐशानेऽष्टाविंशतिः । सनत्कुमारे द्वादश । माहेन्द्रेऽष्टी । ब्रह्मलोके चत्वारि शतसहस्राणि । लान्तके पञ्चाशत् सहस्राणि । महाशुक्रे चत्वारिंशत् । सहस्त्रारे षट् । आनतप्राणतारणाच्युतेषु सप्त शतानि । अधो ग्रैवेयकाणां शतमेकादशोत्तरम् । मध्ये सप्तोत्तर शतम्, उपर्येकमेव शतम् । अनुत्तराः पश्चैवेति ॥ री०-सौधर्मे त्वावलिकाप्रविष्टानां सप्तदश शतानि सप्तोत्तराणि, पुष्पावकीर्णानामेकत्रिंशल्लक्षाः सहस्राण्यष्टानवतिः द्वे शते त्रिनवत्यधिके, एकत्र द्वात्रिंशल्लक्षाः, ऐशाने द्वादश शतान्यष्टादशोत्तराण्यावलिकाप्रविष्टानां, पुष्पावकीर्णानां सप्तविंशतिलेक्षाः सहस्राण्यष्टानवतिः सप्त शतानि घशीत्यधिकानि, एकत्राष्टाविंशतिर्लक्षाः, सनत्कुमारे त्वावलिकाप्रविष्टानां द्वादश शतानि षड्विंशत्युत्तराणि, पुष्पावकीर्णानामेकादश लक्षाः सहस्राण्यष्टानवतिः सप्त शतानि चतुःसप्तत्यधिकानि, एकत्र द्वादश लक्षाः,माहेन्द्रेऽष्टौ शतानि चतुःसप्तत्यधिकान्याव १ १७०७+३१९८२९३=३२०००००. २ १२१८+२७९८७८२=२८०००... ३ १२२६+११९८७७४१२०००.१. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy