________________
सूत्रं २२ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
३०१
पश्यन्ति । येषामपि क्षेत्रतस्तुल्यो ऽवधिविषयस्तेषामप्युपर्युपरि विशुद्धितोऽधिको भवतीति ॥ २१ ॥
टी० - इन्द्रियाणि श्रोत्रादीनि तेषां विषयः शब्दादिर्योग्य देशव्यवस्थितस्तद्ग्रहणप्रवृतापर्युपर्याहितपाटवा भवन्ति, अवधिविषयेण चोपर्युपरि समधिकाः, अधस्ताद् रत्नप्रभां पृथिवीं पश्यन्ति सौधर्मेशानयोर्देवास्तिर्यगसङ्ख्येयान् द्वीपसागरान् ऊर्ध्वमास्वभवन स्तूपकाग्रात् सर्व एवोपरि देवाः पश्यन्ति । सनत्कुमार माहेन्द्रयोरवधिना श र्कराप्रभामधस्तिर्य बहुतर कानसङ्ख्येयान् द्वीपसमुद्रान् । एवं सर्वत्र वक्तव्यमिति । ब्रह्मलान्तकयोर्वालुकाप्रभां पश्यन्ति, शुक्रसहस्रारयोः पङ्कप्रभा, आनतप्राणतयोरारणाच्युतयोश्च धूमप्रभां अधस्तात्तनमध्यम ग्रैवेयकास्तमः प्रभां उपरितनग्रैवेयकास्तु महातमः प्रभामिति । अनुत्तरविमानपञ्चकनिवासिनस्तु समस्तां लोकनाडीं पश्यन्ति लोकमध्यवर्तिनीं, न पुनर्लोकमिति । येषामपि देवानां तुल्यविषयमवधिज्ञानमुपर्युपरि तेषामप्युपरिष्टाद् विशुद्धतरमवसेयमिति ।। २१॥ एते चोपर्युपरि वैमानिकाः—
सूत्रम् -- गतिशरीरपरिग्रहाभिमानतो हीनाः || ४-२२॥
भा०- - गतिविषयेण शरीरमहत्त्वेन महापरिग्रहत्वेनाभिमानेन च उपर्युपरि हीनाः । तद्यथा - द्विसागरोपमजवन्यस्थितीनां देवानामासप्तम्यां गतिविषयः गत्यादिभिरुत्तरोतिर्यगसङ्ख्येयानि योजनकोटी कोटी सहस्राणि ततः परतो "तरदेवानां ही जघन्यस्थितीनामेकैकहीना भूमयो यावत् तृतीयांमिति । गतपूर्वाश्व गमिष्यन्ति च तृतीयायां देवाः, परतस्तु सत्यपि गति - विषये न गतपूर्वा नापि गमिष्यन्ति । महानुभावक्रियातः औदासीन्याश्चोपर्युपरि देवा न गतिरतयो भवन्ति ॥
त्वम्
टी. - गतिशरीरपरिग्रहाभिमानतो हीनाः, द्वन्द्वात् तृतीयार्थे तसिः । गतिवियेणेत्यादि भाष्यम् । गतिर्देशान्तरगमनम्, येषां द्वे सागरोपमे जघन्या स्थितिस्ते किल देवाः सप्तमधरां प्रयान्ति, ते च सनत्कुमारकल्पात् प्रभृति लभ्यन्ते, शक्तिमात्रं चैतद् वर्ण्यते, न पुनः कदाचिदगमन् तिर्यग सङ्ख्येयानि योजनकोटीनां कोटीसहस्राणि ततः परत इत्यादि सागरोपमद्वयादधो जघन्या स्थितिर्येषां न्यूनतरा न्यूनतमा चेति, ते त्वेकैकहीनां भुवमनुप्राप्नुवन्ति यावत् तृतीया पृथिवी, तां च तृतीयां पूर्वसङ्गतिकाद्यर्थं गता गमिष्यन्ति, परतस्तु सत्यामपि शक्तौ न गतपूर्वा नापि गमिष्यन्ति, औदासीन्यात् - माध्यस्थ्यादुपर्युपरि न गतिरतयो देवा जिनाभिवन्दनादीन् मुक्तवेति ॥
१ 'तृतीयेति' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org