________________
रदेवानामाधि
३०० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ दिभिरथैरधिका भवन्ति।तत्र स्थितिरुत्कृष्टा जघन्या च परस्ताद् (मु०२९-४२)वक्ष्यते। इह तु वचने प्रयोजनं येषामपि समा भवति तेषामप्युपर्युपरि गुणतोधिका भवतीति यथा प्रतीयेत ॥प्रभावतोधिकाः । यः प्रभावो निग्रहानुग्रहविक्रियापराभियोगादिषु सौधर्मकाणां सोऽनन्तगुणाधिक उपर्युपरि, मन्दाभिमानतया तु अल्प
_ तरसंक्लिष्टत्वादेते न प्रवर्तन्त इति ॥ क्षेत्रस्वभावजनिताच शुस्थितिप्रभावा
भपुद्गलपरिणामात् सुखतो द्युतितश्चानन्तगुणप्रकर्षणाधिकाः॥ दिभिरुत्तरोत्त
लेश्याविशुद्धयधिकाः।लेश्यानियमः परस्तादेषां वक्ष्यते(सू०२३)। क्यम् इह तु वचने प्रयोजनं यथा गम्यत यत्रापि विधानतस्तुल्या
स्तत्रापि विशुद्धितोऽधिका भवन्तीति । कर्मविशुद्धित एव वा अधिका भवन्तीति ॥
टी०-यथाक्रमं चैतेष्वित्यादि भाष्यम् । येन क्रमसन्निवेशेन वैमानिकाः सौधर्मादिषु कल्पेषु व्यवस्थिताः उपर्युपरि तेनैव क्रमसन्निवेशविशेषेण पूर्वमाद् पूर्वस्माद विमानप्रस्तारात कल्पाद वा एभिः स्थित्यादिभिः सप्तभिरथैरधिका भवन्ति । तत्र स्थितिरापुषो द्विविधाऽप्युपरिष्टाद (सू०२९-४२) वक्ष्यते। इहोपन्यासेतु प्रयोजनं येषामप्यधस्तनैरौपरिष्ठानांतुस्यास्थितिर्भवति तेषामप्युपर्युपरि गुणतोऽधिका भवतीति यथा प्रतीयेत,गुणाः सुखाहारग्रहणाल्पशरीरत्वादयस्तैरुपरितनानामधिका अवगन्तव्याः । अचिन्त्या शक्तिः प्रभावः, सोऽधिको भवत्युपरीति,निग्रहानुग्रही प्रसिद्धौ विक्रिया-अणिमादिपरिणामशक्तिः,पराभयोगो यदाक्रम्य बलात् परः कारयितव्य इति । प्रतनुकर्मत्वादल्पाभिमाना अक्लिष्टा अक्लिष्टचित्ताश्वोपरितना इति । अनादिपारिणामिक शुभपुद्गलपरिणामात् क्षेत्रस्वभावजनितादुपर्युपरि सुखोदयेनानन्तगुणप्रकृष्टेनाधिकाः, द्युतिर्विग्रहमजा तयाप्युपरितनाः समभ्यधिकाः। शरीरवर्णो लेश्या तद्विशुद्धया चोपरिष्टादधिकाः, तं च लेश्यानियममेषामग्रे (मू० २३) वक्ष्यामः । इह तु वचने प्रयोजनं यत्रापि तुल्यभेदत्वमुपरितनानामाधस्त्यैर्लेश्याभिस्तत्रापि विशुद्धित उपर्युपरि समधिका भवन्ति, प्रतनुकर्मत्वात् शुभबहुलत्वाच ॥
भा०-इन्द्रियविषयतोऽधिकाः । यदिन्द्रियपाटवं दूरादिष्टविषयोपलब्धौ सौधर्मदेवानां तत्प्रकृष्टतरगुणत्वादल्पतरसक्लेशत्वाचाधिकमुपर्युपरीति ॥
- अवधिविषयतोऽधिकाः सौधर्मेशानयोर्देवाः इन्द्रियावधिविष
अवधिवियाधिकतोत्तरोत्त
वक्ष षयेणाधो रत्नप्रभां पश्यन्ति तिर्यगसङ्ख्येयानि योजनशरदेवानाम् तसहस्राणि ऊर्वमास्वभवनात् । सनत्कुमारमाहेन्द्रयोः शर्करा
प्रभां पश्यन्ति तिर्यगसङ्ख्येयानि योजनशतसहस्राणि ऊर्ध्वमास्वभवनात् इति, एवं शेषाः क्रमशः । अनुत्तरविमानवासिनस्तु कृत्वां लोकनाडी
१ ‘गुणाधिका' इति घ-पाठः । २ 'रिष्ठात्तना० ' इति ग-पाठः । ३ 'जनसहस्राणि' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org