SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २९९ सूत्रं २१ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् " कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु' (पा० अ०४, पा०२, सू० ९६ ) वदत्र ग्रीवायां प्रायो भवा ग्रैवेयकाः, तथा ग्रीव्या इति भाष्यकृतोपन्यस्तं ग्रीवायां साधवो ग्रीव्या इति स्याद् व्युत्पत्तिः ॥ भा० - अनुत्तराः पञ्च देवनामान एव । विजिता अभ्युदयविघ्नहेतवः एभिरिति विजयवैजयन्तजयन्ताः । तैरेव विघ्नहेतुभिर्न पराजिता अपराजिताः । अनुत्तराणां सर्वेष्वभ्युदयार्थेषु सिद्धाः सर्वार्थैश्च सिद्धाः सर्वे चैषामभ्युदपञ्चविधत्वम् यार्थाः सिद्धा इति सर्वार्थसिद्धाः । विजितप्रायाणि वा कर्माण्येभिरुपस्थित भद्राः परीष हैरपराजिताः सर्वार्थेषु सिद्धाः सिद्धप्रायोत्तमार्था इति विजयादय इति ॥ २० ॥ टी० – अनुत्तराः पञ्चेत्यादि । विमान विशेषाः पञ्च सर्वोपर्यनुत्तराः अविद्यमानमुत्तरमन्यद् विमानादि येषां तेऽनुत्तराः देवनामान एव ते विमानविशेषाः । विजिता अभिभूताः, अभ्युदयः - स्वर्गस्तस्य विघ्नहेतवो निरस्ता एभिर्देवैरिति विजयवैजयन्तजयन्ताः, हि सकलानभ्युदयविधातहेतू नपास्य हस्तेकृत्य स्वर्गसुखसन्दोहरसमुपभुञ्जते । तैरेव चाभ्युदयविघात हेतुभिर्न पराजिता इत्यपराजिताः । सर्वेष्वभ्युदयार्थेषु सिद्धाः सर्वार्थसिद्धाः आभ्युदयिकसुखप्रकर्षवर्तित्वात् सर्वप्रयोजनेष्वव्याहतशक्तयः सर्वार्थसिद्धाः । अथवा सर्वार्थैश्च सिद्धाः । चशब्दो वाशब्दार्थः । सर्वैर्वाऽतिशयवद्भिः शब्दादिभिरतिमनोहरैः सिद्धाः–प्रख्याताः सर्वार्थसिद्धाः सर्वे चैषामभ्युदयार्थाः सिद्धाः सर्वार्थसिद्धा इति निरवशेषमभ्युदयप्रयोजनप्रतिष्ठत्वाद् वा सर्वार्थसिद्धा इति । अयमपरः कल्पः - विजितप्रायाणि बेत्यादि, प्रतनुकर्मपटलावच्छन्नत्वात् प्रत्यासन्नानवद्य सुखनिर्भर सिद्धिवधूसमागमत्वादुपस्थितपरमकल्याणाः साधुजन्मनि परीष हैरपराजिताः सन्तो मरणादुत्तरमपराजिता एव देवाः समुत्पन्नाः, तत्र वा सतत तृप्तत्वान्न क्षुदादिभिः पराजीयन्त इत्यपराजिताः, तथा सर्वकर्तव्य - तायाः परिसमाप्तेः सांसारिक्याः सर्वार्थसिद्धाः, सिद्धप्राय उत्तमार्थो येषां सकलकर्मक्षयलक्षणो मोक्षोऽनन्तरागामिजन्मभावित्वात् ते सर्वार्थसिद्धाः । एवं विजयादद्य इति । एवम्-एतेन प्रकारेण विजयादयोऽपि सर्वार्थसिद्धा एव । तथापि तु काचित् कचित् प्रसिद्धतरा भवति गमनाद् गौर्यथेति ॥ २० ॥ तत्राधिगतानुपूर्वीकाः दिवौकसः प्रकृताः - सूत्रम् — स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥ ४- २१ ॥ भा०- यथाक्रमं चैतेषु सौधर्मादिषु उपर्युपरि देवाः पूर्वतः पूर्वत एभिः स्थित्या १ 'स्वास्यलङ्कारेवुढवुन्' इति ग-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy