________________
२९८
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ सौधर्मस्य कल्पस्योपरि ऐशानः कल्पः । ऐशानस्योपरि सनत्कुमारः । सनत्कुमारस्योपरि माहेन्द्र इत्येवमा सर्वार्थसिद्धादिति ॥
___टी०–एतेषु सौधर्मादिष्वित्यादि भाष्यम् । कल्पः समुदायः सन्निवेशो विमानमात्रपृथिवीप्रस्तारः, स निमित्तभेदाद् द्वादशधा उपयवस्थितः। तद्यथा-ज्योतिष्कोपरितनप्रस्तारादसङ्ख्येययोजनमध्वानमारुह्य मेरूपलक्षितदक्षिणभागार्धव्यवस्थितः प्राक् तावत् सौधर्मः कल्पः प्राचीप्रतीच्यायत उदग्दक्षिणविस्तीर्णोऽधचन्द्राकृतिरर्चिालीव भास्वरोऽसङ्ख्येययो. जनकोटीकोव्य आयामविष्कम्भाभ्यां परिक्षेपतश्च सर्वरत्नमयो लोकान्तविस्तारो मध्यव्यव
.. स्थितसर्वरत्नमयाशोकसप्तपणचम्पकचूतसौधावतंसकोपशोभितशकावासौधर्मकल्पादीनां वर्णनम्
ना सः, तस्यैवंरूपस्योपरि सौधर्मस्य ऐशानकल्पः । सोऽप्येवंविध
एवोदग्रव्यवस्थितः ईषदुपरितनकोट्या समुच्छ्रिततरो मध्यव्यवस्थिताङ्कस्फटिकरजतजातरूपेशानावतंसकविभूषितः । सौधर्मस्योपरि बहूनि योजनान्यतिक्रम्य समश्रेणिव्यवस्थितः सनत्कुमारः कल्पः सोधमेवद् द्रष्टव्यः, एवमैशानस्योपरि माहेन्द्रसमुच्छिततरोपरितनकोटिरैशानवदवगन्तव्यः । सनत्कुमारमाहेन्द्रकल्पयोरुपरि बहूनि योजनान्यतीत्य मध्यवर्ती सकलनिशाकराकृतिब्रह्मलोकनामकल्पः । अत्र लोकग्रहणं लोकान्तिकदेवप्रतिपत्त्यर्थम् । ते हि किल भक्तिप्रवणीकृतचेतसः सर्वदा जिनेन्द्रजन्मादिप्रलोकनपराः शुभाध्यवसायप्रायाः परिवसन्तीति । एवमुपयुपरि लान्तकमहाशुक्रसहस्रारास्त्रयः कल्पाः प्रतिपत्तव्याः। अत्र च सूत्रे मूरिणा सप्त सप्तम्य उपात्ताः, ताश्च लघीयस्त्वावस्थितेरधःक्रमप्रदर्शनार्था इति, तत उपरि बहूनि योजनान्यतिलय सौधर्मेशानकल्पद्वयवदानतप्राणतनामानौ द्वौ कल्पाववस्थिताविति, तदुपरि समश्रेणिव्यवस्थितौ सनत्कुमारमाहेन्द्रवदारणाच्युतावित्येवं द्वादश कल्पाः । तत उपरि ग्रेवेयकानि नवोपयुपरि, तदुपरि च.पश्च महाविमानानि, इत्येष वैमानिकदेवानामवच्छेद इति ॥
भा०-सुधमा नाम शक्रस्य देवेन्द्रस्य सभा, सा तस्मिन्नस्तीति सौधर्मः कल्पः। ईशानस्य देवराजस्य निवास ऐशानः, इत्येवमिन्द्राणां निवासयागाभिख्याः सर्वे कल्पाः । प्रैवेयकास्तु लोकपुरुषस्य ग्रीवाप्रदेशविनिविष्टा ग्रीवाभरणभूता ग्रेवा ग्रीव्या ग्रैवेया ग्रैवेयका इति ॥
टी-कल्पमध्यवर्तिनी सुधर्मा नाम शक्रस्य तन्निवासिसुराधिपतेः सभा, सातस्मिन् कल्पेऽस्तीति सौधर्मः,चातुरार्थिकोऽण् । ईशानस्य देवराजस्य निवासः ऐशान इति, तस्य निवाससम्बन्धेनाण् । एवमुपरितनाः सर्वेऽपीन्द्राणां निवासयोगाभिख्याः कल्पाः । ग्रैवेयकास्तु लोकपुरुषस्य ग्रीवाभरणभूताः उपचाराल्लोक एव पुरुषस्तस्य ग्रीवेव ग्रीवा तस्यां भवा ग्रेवा अवेया च 'ग्रीवाभ्योऽण्च' (पा० अ०४, पा०३, मू०५७ ) इति । तथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org