SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ४ टी० - दक्षिणार्धाधिपतीनां व्यतिरिक्ता उत्तरार्धाधिपतयः शेषा बलिव्यतिरिक्ताः तेषां पादोने द्वे पल्योपमे स्थितिरायुषः, पादचतुर्थभाग इति ॥ ३१ ॥ अथ किमेषां भवनवास्यधिपतीनां सर्वेषामियं परा स्थितिः । नेत्युच्यते किन्त्वाधिपत्यसामान्ये विशेषेणानयोः प्रतिपत्तव्या ॥ ३१ ॥ ३१० सूत्रम् - असुरेन्द्रयोः सागरोपममधिकं च ॥ ४--३२ ॥ भा०- असुरेन्द्रयोस्तु दक्षिणार्धाधिपत्युत्तरार्धाधिपत्योः सागरोपममधिकं च यथासङ्ख्यं परा स्थितिर्भवति ॥ ३२ ॥ टी० - पूर्वा (दक्षिणा ?)र्धाधिपतेश्चमरस्योत्तरार्धाधिपतेश्च बलिराजस्य यथासङ्ख्यमेव, सागरोपमं चमरस्य बलेस्तदेवाधिक कियताऽपि विशेषेण सागरोपमस्थितिरायुषो भवतीति । उक्तं च सागरोपमं लक्षणतः प्रागिति, असुरकुमारीणां चत्वारि पल्योपमानि सार्धानि परा स्थितिः, शेषाणां नागवधूप्रभृतीनां सर्वभवनवासिनीनां देशोनं पल्योपममुत्कृष्टा स्थितिरिति ॥ ३२ ॥ आद्यदेवनिकायस्थितिव्याख्यानानन्तरं व्यन्तरज्योतिष्कानव सरप्राप्तानतिलङ्घ्योपरिटादेव तावल्लाघवार्थिना वैमानिक निकाय स्थितिराख्यायते— वैमानिकस्थि- सूत्रम् — सौधर्मादिषु यथाक्रमम् ॥ ४- ३३ ॥ -- सौधर्ममादिं कृत्वा यथाक्रममित ऊर्ध्वं परा स्थितिर्व भा०- तिप्रस्तावः क्ष्यते ॥ ३३ ॥ टी० - सौधर्ममादिं कृत्वा यावत् सर्वार्थसिद्धविमानं तावद् यथाक्रममिति ऊर्ध्वं स्थितिर्वक्ष्यते देवानामायुष इति ॥ ३३ ॥ सूत्रम् - सागरोपमे ॥ ४-३४ ॥ भा०- सौधर्मे कल्पे देवानां परा स्थितिर्दे सागरोपमे इति ॥ ३४ ॥ टी० – इन्द्रसामानिकानां सागरोपमद्वयं सौधर्मे स्थितिरुत्कृष्टा लभ्यत इति ॥ ३४ ॥ सूत्रम् - अधिके च ॥ ४--३५॥ भा०- ऐशाने द्वे सागरोपमे अधिके परा स्थितिर्भवति ॥ ३५ ॥ टी०—अधिके च यथाक्रमग्रहणादैशानोऽभिसम्बध्यते । द्वे सागरोपमे कियताऽपि विशेषेणाधिके ऐशाने कल्पे परा स्थितिरिन्द्रादीनामिति ॥ ३५ ॥ सूत्रम् - सप्त सनत्कुमारे ॥ ४ -- ३६ ॥ भा०-- सनत्कुमारे कल्पे सप्त सागरोपमाणि परा स्थितिर्भवति ॥ ३६ ॥ १' द्वे' इत्यधिको ग-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy