________________
२८४ तत्त्वार्थाधिगमसूत्रम्
[अव्यायः १ मरुदेवाः मरुतो मरुत्प्रभा यशस्वन्त इति ॥ महोरगा दशविधाः । तद्यथाभुजगा भोगशालिनो महाकायाः अतिकायाः स्कन्धशालिनो मनोरमा महावेगा महेष्वक्षाः मेरुकान्ताः भास्वन्त इति ॥ गान्धर्वा द्वादशविधाः । तद्यथा-हाहा हूहू तुम्बुरवो नारदा ऋषिवादका भूतवादिकाः कादम्बा महाकादम्बा रैवता विश्वावसवो गीतरतयो गीतयशस इति ॥ यक्षास्त्रयोदशविधाः । तद्यथा-पूर्णभद्राः माणिभद्राःश्वेतभद्राः हरिभद्राःसुमनोभद्राः व्यतिपातिकभद्राः सुभद्राः सर्वतोभद्राः मनुष्ययक्षा वनाधिपतयो वनाहारा रूपयक्षा यक्षोत्तमा इति ॥ ससविधा राक्षसाः। तद्यथा-भीमा महाभीमा विघ्ना विनायका जलराक्षसा राक्षसराक्षसा ब्रह्मराक्षसाः ॥ भूता नवविधाः । तद्यथा-सुरूपाः प्रतिरूपाः अतिरूपाः. भूतोत्तमाः स्कन्दिकाः महास्कन्दिकाः महावेगाः प्रतिच्छन्ना आकाशगा इति ॥ पिशाचाः पञ्चदशविधाः । तद्यथा-कूष्माण्डाः पटका जोषा आह्नकाः कालाः महाकालाश्चोक्षा अचोक्षाः तालपिशाचा मुखरपिशाचा अधस्तारका देहा महाविदेहाः तूष्णीका वनपिशाचा इति ॥
तत्र किन्नराः प्रियङ्गुश्यामाः सौम्याः सौम्यदर्शना किन्नरादीनां वर्णनम् " मुखेष्वधिकरूपशोभा मुकुटमौलिभूषणा अशोकवृक्षध्वजा
अवदाताः ॥ किंपुरुषा ऊरुबाहुष्वधिकशोभा मुखेष्वधिकभास्वरा विविधाभरणभूषणाश्चित्रनगनुलेपनाश्चम्पकवृक्षध्वजाः ॥ महोरगाः श्यामावदाता महावेगाः सौम्याः सौम्यदर्शना महाकायाः पृथुपीनस्कन्धश्रीवा विविधंविलेपना विचित्राभरणभूषणा नागवृक्षध्वजाः॥गान्धर्वा रक्तावदाता गम्भीराः प्रियदर्शनाः सुरूपाः सुमुखाकाराः सुस्वरा मौलिधरा हारविभूषणाः तुम्बरुवृक्षध्वजाः ॥ यक्षाः श्यामावदाता गम्भीरास्तुन्दिला वृन्दारकाः प्रियदर्शना मानोन्मानप्रमाणयुक्ता रक्तपाणिपादतलनखतालुजितोष्ठा भास्वरमुकुटधरा नानारत्नविभूषणा वटवृक्षध्वजाः ॥ राक्षसा अवदाता भीमा भीमदर्शनाः शिरःकराला रक्तलम्बौष्ठाः तपनीयविभूषणा नानाभक्तिविलेपनाः खट्वाङ्गध्वजाः ॥ भूताः श्यामाः सुरूपाः सौम्या आपीवरा नानाभक्तिविलेपनाः सुलसध्वजाः कालाः ॥ पिशाचाः स्वरूपाः सौम्यदर्शना हस्तग्रीवासु मणिरत्नविभू. षणाः कदम्बवृक्षध्वजाः ॥ इत्येवंप्रकारस्वभावानि वैक्रियाणि रूपचिह्नानि व्यन्तराणां भवन्तीति ॥१२॥ तृतीयो देवनिकायः ।
टी०-यस्माञ्चाधस्तिर्यगूर्व चेत्यादि भाष्यम् । स्वातन्त्र्यात्-स्वेच्छया, पराभियोगाच शक्रादिदेवेन्द्राज्ञया चक्रवर्त्यादिपुरुषाज्ञया वा प्रायोनियतगतिप्रचारा भव
१ 'वैक्षाः ' इति क-पाठः , 'चौक्षाः ' इति तु घ-पाठः २ ‘धानुविले. ' इति घ-पाठः । ३ — सुरूपाः
इति घ-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org