________________
सूत्रं १२ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
२८३
दयान्निर्माणनामकर्मोदयाद वर्णादिनामोदयाच्च प्रतिजातिविशेषकारिण्यो विक्रिया जायन्ते । गम्भीरा घनशरीराः श्रीमन्तः सर्वाङ्गोपाङ्गसुन्दराः कृष्णवर्णा महाशरीरा इत्येतत् सर्वं नामकर्मोद्यजनितमेषामसुराणाम्, एवं नागादीनामपि योजनीयं स्वजातिविशेषनियतवचनात् शेषं भाष्यमेव सुज्ञानम् । एषां च भवनसङ्ख्या सामान्यतः सप्त कोट्यः सप्ततिर्लक्षा लक्षद्वयाधिकाः, विशेषेण तु दक्षिणदिग्व्यवस्थितासुराणां चतुस्त्रिंशत् लक्षाः, उत्तरदिग्भाजां त्रिंशदेकत्र चतुष्षष्टिः, दक्षिणदिग्नागानां चतुश्चत्वारिंशदुत्तरदिग्नागानां चत्वारिंशदेकत्र चतुरशीभवन सङ्ख्या तिः, दक्षिणविद्युत्कुमाराणां चत्वारिंशदुत्तरवासिनां पत्रिंशदेकत्र षट्सप्ततिः । एषैव सङ्ख्या दक्षिणोत्तरभिन्नानामग्निस्तनितोदधिद्वीप दिक्कुमाराणामिति, दक्षिणसुपर्णानामष्टात्रिंशदुत्तरनिवासिनां चतुस्त्रिंशदेकत्र सप्ततिद्वर्युत्तरेति । दक्षिणमरुतां पञ्चाशदुत्तरवासिनां षट्चत्वारिंशदेकत्र षण्णवतिः । लक्षाः सर्वत्र सम्बन्धनीया इति ॥ ११ ॥ अधुना भवनचर निलयानन्तरदेवनिकायोद्देशभाजो येऽष्टविधास्तेऽभिधीयन्ते
व्यन्तर-भेदाः
भा०- अष्टविधो द्वितीयो देवनिकायः । एतानि चास्य विधानानि भवन्ति । अधस्तिर्यगूर्ध्व च त्रिष्वपि लोकेषु भवनेनगरेषु आवासेषु च प्रतिवसन्ति ।
-
सूत्रम्--व्यन्तराः किन्नर- किंपुरुष-महोरग गान्धर्व-यक्षराक्षस भूत-पिशाचाः ॥ ४- १२ ॥
व्यन्तरशब्दार्थः
टी०० - अथ किमर्थं व्यन्तरा उच्यन्ते, तत्र भाष्यमधस्तिर्यगूर्ध्व चेत्यादि । रत्नप्र. भारतकाण्डे योजनशतद्वयवर्जितेऽष्टासु योजनशतेषूत्पन्नाः सन्तस्त्रिलोक्यां स्वभवनेषु स्वनगरेषु स्वावासेषु च प्रतिवसन्ति बालवत् स्वभावानवस्थानाअतो विविधमन्तरम् - आवसनमेषामिति व्यन्तराः । एतदेव स्पष्टयति भाष्यकार:
त्,
भा०— यस्माच्चाधस्तिर्यगूर्ध्व च त्रीनपि लोकान् स्पृशन्तः स्वातन्त्र्यात् पराभियोगाच्च प्रायेण प्रतिपतन्त्यनियतगतिप्रचाराः, मनुष्यानपि केचिद् भृत्यवदुपचरन्ति । विविधेषु च शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्ति, अतो व्यन्तरा इत्युच्यन्ते ॥
किंपुरुषादिभदाः
तत्र किन्नरा दशविधाः । तद्यथा - किंपुरुषाः किंपुरुषोत्तमाः किन्नराः किन्नरोत्तमा हृदयङ्गमा रूपशालिनोऽनिन्दिता मनोरमा रतिप्रिया रतिश्रेष्ठा इति ॥ किंपुरुषा दशविधाः । तद्यथा - पुरुषाः सत्पुरुषाः महापुरुषाः पुरुषवृषभाः पुरुषोत्तमाः अंतिपुरुषोत्तमाः
Jain Education International
--
१ भूमिष्ठानि नगराणि भवननगराणि यद्वा भवनानि भूमिष्ठानि नगराणि प्राकारादिविशेषरचनावन्ति तिर्यक् आवासा यथा सर्वत्र योग्यस्थाने । २ ' अतिपुरुषाः ' इति घ-पाठः ।
For Personal & Private Use Only
www.jainelibrary.org