________________
२८२
वर्णनम्
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ कोटीकोटीषु आवांसाः । भवनानि च दक्षिणार्धाधिपतीनामुत्तरार्धाधिपतीनां च यथास्वं भवन्ति ।
टी०-महामन्दरस्येत्यादि । धातकीखण्डादिमन्दरल्यावृत्त्यर्थं महामन्दरग्रहणम्, चिह्नमात्र महामन्दरग्रहणमत्र, योजनसहस्रमात्रावगाहित्वात, तस्य दक्षिणस्यां दिशि तिर्यग्बहीषु योजनलक्षकोटीनां कोटीपु भवन्त्यावासाः, भवनानि च दक्षिणाधाधिपतीनां चमरादीनामुत्तरार्धाधिपतीनां च बलिप्रभृतीनां यथायथमसुरादीनां इति । आर्षे तु रत्नप्रभाया बाहल्यात् सहस्रमुपर्यधश्च सन्त्यज्य मध्येऽष्टसप्ततिसहस्राधिकलक्षायां कुसुमप्रकरवत् प्रकीर्णानि भवनानि सर्वत्र ॥ भाष्यकाराभिप्रायस्तु
भा०–तत्र भवनानि रत्नप्रभायां बाहल्यांर्धमवगाह्य मध्ये, भवनेषु वसन्तीति भवनवासिनः । भवप्रत्ययाश्चैषामिमा नामकर्मनियमात् स्वजातिविशेषनियता विक्रिया भवन्ति । तद्यथा-गम्भीराः श्रीमन्तः काला महाकाया रत्नो
.. त्कटमुकुटभास्वराश्चूडामणिचिह्ना असुरकुमारा भवन्ति । असुरकुमारदाना शिरोमुखेष्वधिकप्रतिरूपाः कृष्णाः श्यामा मृललितगतयः
शिरस्सु फणिचिह्ना नागकुमाराः । लिग्धा भ्राजिष्णवोऽवदाता वज्रचिह्ना विद्युत्कुमाराः। अधिप्रतिरूपग्रीवोरस्काः श्यामावदाता गरुडचिह्नाः सुपर्णकुमाराः । मानोन्मानप्रमाणयुक्ता भास्वन्तोऽवदाताः घटचिह्नाः अग्निकुमारा भवन्ति । स्थिरपीनवृत्तगात्रा निनोदरों अश्वचिह्ना अवदाता वातकुमाराः। लिग्धाः स्निग्धगम्भीरानुनादमहास्वनाः कृष्णा वर्धमानचिह्नाः स्तनितकुमाराः । उरुकटिष्वधिकप्रतिरूपाः कृष्णश्यामा मकरचिह्ना उद्धिकुमाराः । उरःस्कन्धबावग्रहस्तेष्वधिकप्रतिरूपाः श्यामावदाताः सिंहचिह्ना द्वीपकुमाराः। जङ्घाग्रपादेष्वधिकप्रतिरूपाः श्यामा हस्तिचिह्ना दिकुमाराः । सर्वेऽपि च विविधवस्त्राभरणा भवन्तीति ॥११॥
टी-तत्र भवनानीत्यादि भाष्यम् । रत्नप्रभायां बाहल्यार्धमवगाह्य मध्ये भवनानि भवन्ति,तस्मिन्नेव स्थाने नवतिसहस्राण्यधोऽवगाह्य,आवासास्तु सहस्रद्वयपरिवर्जितायां रन्तप्रभायां सर्वत्रेत्यभिप्रायः । भवप्रत्ययाश्चैषामिमा नामकर्मनियमात् स्वजातिविशेषनियता विक्रिया भवन्ति । भवहेतुकास्ता जन्मतपोनुष्ठाननिरपेक्षा विक्रियाः सम्बध्यन्ते । नामकर्मनियमाच स्वजातिविशेषनियता विक्रिया भवन्ति । अङ्गोपाङ्गनामकर्मो
1 नावासानां स्थितौ क्रमः कोऽपि असुरादीनां यथा भवनेषु तेषामिति । २ "अर्धः खण्डेऽधं समांशे" इत्यनेकार्थोक्तेः तुल्यभागेऽर्धं इति अर्धसुदर्शनदेवनमिति च लिङ्गानुशासनक्तश्चे खण्डार्थोऽोऽत्र । ३ 'मध्ये भवन्ति' इति घ-पाठः । ४ 'अधिकरूप' इति क-घ-पाठः । ५ 'भास्वतः' इति ग-पाठः । ६ निमनोदरा' इति ग-घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org