SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ सूत्र ११ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २८१ भा० - अत्राह - उक्तं भवता – 'देवाश्चतुर्निकायाः' (अ० ४, सू १), 'दशाष्टपञ्चद्वादशविकल्पाः' ( अ० ४, सू० ३ ) इति, तत् के निकायाः के चैषां विकल्पा इति ? | अत्रोच्यते - चत्वारो देवनिकायाः । तद्यथा - भवनवासिनो व्यन्तरा ज्योतिष्का वैमानिका इति ॥ १० ॥ तत्र - टी० - अत्राह-उक्तं भवतेत्यादिपात निकाग्रन्थः । देवाश्चतुर्निकाया इत्युक्तमध्यायादौ, तथा दशादिभेदाश्चाधीताः, तदेतन्निर्दिश्यतामञ्जसा के पुनस्ते निकायाः के चैषां निकायानां दशादयो विकल्पा इति १ । अत्रोच्यते- चत्वारस्तावनिकायाः - भवनवासिनो व्यन्तरा ज्योतिष्का वैमानिका इति ॥ १० ॥ तत्र तेषु चतुर्षु निकायेषु भवनवासिनामेव तावद् भेदप्रतिपादनं क्रियते, तत्रसूत्रम् - भवनवासिनोऽसुरनागविद्युत्सुपर्णानिवातस्तनितोदधिद्रीपदिककुमाराः ॥ ४-११ ॥ भा०- प्रथमो देवनिकायो भवनवासिनः । इमानि चैषां विधानानि भवन्ति । तद्यथा-असुरकुमाराः, नागकुमाराः, विद्युत्कुमाराः, सुपर्णकुमाराः, अग्निकुमाराः, वातकुमाराः, स्तनितकुमाराः, उधिकुमाराः, द्वीपकुमाराः, दिक्कुमारा इति । टी. - भूमिष्ठत्वात् भवनानि तेषु वस्तुं शीलं येषां ते भवनवासिनः, प्रथमो निकायोसुरादयो भेदाः । तत्कुमारशब्दः प्रत्येकमभिसम्बध्यते । कः पुनः कुमारशब्दार्थ इत्याह भा०- कुमारवदेते कान्तदर्शना अंसुरकुमारा मृदुमधुर ललितगतयःशृङ्गाराभिजातरूपविक्रियाः कुमारवच्चोद्धतरूपवेष भाषाभरणप्रहरणावरणपातयानवाहनाः कुमारवश्च्चोल्बणरागाः क्रीडनपराश्चेत्यतः कुमारा इत्युच्यन्ते । असुरकुमारावासेष्वसुरकुमाराः प्रतिवसन्ति, शेषास्तु भवनेषु ॥ भवनवासिनां विधानानि टी० - कुमारवदेते कान्तदर्शना इति सुज्ञानम् । असुरकुमारावासेष्वसुरकुमाराः प्रतिवसन्ति, आवासाः कायमानस्थानीया महामण्डपा नानारत्नप्रभासितोल्लोचाः, तेषु तादृशेषु भूयसा वसन्त्यसुरकुमाराः कदाचित् भवनेष्वपीति । शेषास्तु नागादयो भवनेsaa प्रायो वसन्ति, नावासेष्विति । तानि च भवनानि बहिर्वृत्तान्यन्तश्चतुरस्राण्यधः पुष्कर कर्णिकासंस्थानानि ॥ क पुनस्ते आवासा भवनानि चेत्याह भा०- महामन्दरस्य दक्षिणोत्तरयोर्दिग्रविभागयो वाषु येोजनशतसहस्र१ सुकुमारा इति घ-पाठः । २ ' प्रहरणचरणपातवाहनाः' इति क-पाठः, 'प्रहरणावरणयानवाहनाः ' इति तु घ-पाठः । ३६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy