________________
२८० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ एभिश्च प्रवीचारादिभिरित्यादि । स्पर्शादिभिः सूत्रोपन्यस्तैरुपरिष्टात् परिहसद्भिरल्पसङ्क्लेशत्वाचेतसोऽनुपमः प्रीतिप्रकर्ष उपजायते, इदं हि कायादिकर्म सक्लिष्टचित्तत्वाद् दुःखमावहति, यथाऽऽह
" नग्नः प्रेत इबाविष्टः कणन्तीमुपगृह्य ताम् ।
क्लेशायासितसर्वाङ्गः, सुमुखी रमते किल ॥" स्थित्यादिमिरेवोपरिष्टाद् वक्ष्यन्तेऽधिका देवाः, चित्तक्लेशेन तु परिहीयमानस्वभावा भवन्त्युपर्युपरीति । अत्र च पुनः प्रवीचारग्रहणमुत्तरसूत्रे किल विस्पष्टार्थमाश्रितं, अन्यथा तुल्यत्वात् संहितयोः सन्देहः स्यादिति ॥९॥ अदेवीकाचाप्रवीचाराश्चाधुनाऽभिधीयन्ते
सूत्रम्----परे अप्रवीचाराः॥ ४-१०॥
भा०-कल्पोपपन्नेभ्यः परे देवा अप्रवीचारा भवन्ति, अल्पकल्पातीतानामप्रवीचारत्वम्
- सलेशत्वात् । स्वस्थाः शीतीभूताः । पञ्चविधप्रवीचारोद्भ
__ वादपि प्रीतिविशेषादपरिमितगुणप्रीतिप्रकोंः परमसुखतृप्ता एव भवन्ति ॥
टी०-परे अप्रवीचाराः,अविद्यमानप्रवीचाराः अप्रवीचाराः,कल्पोपपन्नेभ्यः परे ये देवा अवेयकवासिनोऽनुत्तरविमानवासिनचाप्रवीचारा भवन्ति, अल्पसङ्क्लेशत्वाद्धेतोरन्तः शुद्धत्वात् च, ते स्वसमाधिजमेव सुखमुपभुञ्जते, अधिकतरं चैषां तद् भवत्यल्पमोहत्वात् कायक्लेशरहितम्,स्वस्थाः प्रतनुकमोहनीयकर्मपटलानुरञ्जितस्वरूपत्वात् मन्देवाग्नित्वाच्छीतीभूताः, पञ्चविधाः प्रवीचारा-रूपरसगन्धस्पर्शशब्दाः प्रवीचारहेतवो मनोहराः कारणे कार्योपचाराध्यारोपादुक्ताः तत्समुदायजादपि सुखविशेषादपरिमितगुणप्रीतिप्रकर्षा बहुगुणप्रीतिप्रकर्षयुजः परमसुखतृप्ता एव भवन्ति । दुर्लभं हि तादृक् संसारे सुखमन्यनिवासेषु शब्दादिविषयनिरपेक्षत्वात् सहजम्, अतस्तेन जन्मप्रभृत्या स्थितिक्षयात् सततमेव तृप्तास्त इति । न परे इति सूत्रे कर्तव्ये यदाचार्येण पुनरप्रवीचारग्रहणमकारि तज्ज्ञापनार्थमस्यार्थस्य-अल्पः सङ्क्लेशस्तेषु, न बहरिति । सूत्रत्रये यत् प्रवीचारग्रहणं अप्रवीचारग्रहणं च तज्ज्ञापनायामुष्यार्थस्य संसारः किल प्रवीचारसमुद्भव इति । सामान्याभिधाननिकायविकल्पसङ्ख्याविधिरुक्तः पुरस्तात्, तेषां विशेषसंज्ञानिकायविकल्पान् प्रति व्याचिख्यासुरनियमप्रसङ्गे पौरस्त्यनिकायविकल्पसंज्ञानिर्देशार्थमिदमवोचत्-भवनवासिनोऽसुरनागविद्यु. त्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः (मू० ११)। तत्र
१'शीतभूताः' इति क-ख-पाठः । २ सूत्रत्रये प्रथमे तावत् कायप्रवीचारशब्दो रूढस्तादृशे मैथुने यादृशं नरतिरश्चामिति स उपात्तः, द्वितीये स्पशोदिमात्रमेव प्रवीचारतया न विवक्षितं, किन्तु स्पर्शादिविशेषा इति ज्ञापनाय स्पर्शप्रवीचारा इत्यादि प्रतिपादितं, तृतीये तु यदि न परे इत्येवोच्येत तर्हि न ते स्पर्शादिभिः प्रवीचारका इत्येवार्थों गम्येत, परं सर्वथा भावो न ज्ञायेत इष्टं च तज्ज्ञापयितुमिति अप्रवीचारा इति सीथा प्रवीचारनिषेधं चक्रुः सूक्ष्मधियो पाचका इति । ३ 'विकल्पौ प्रति' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org