SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ सूत्रं ९] स्वोपज्ञभाष्य-टीकालङ्कृतम् २७९ त्तास्थाश्च भवन्ति ॥ आनतप्राणतारणाच्युतकल्पवासिनो देवाः प्रवीचारायोत्पनास्था देवीः संकल्पयन्ति,सङ्कल्पमात्रेणव च ते परां प्रीतिमुपलभन्ते विनिवृत्तास्थाश्च भवन्ति ॥ एभिश्च प्रवीचारैः(रादिभिः) परतः परतःप्रीतिप्रकर्षविशेषो. ऽनुपमगुणो भवति, प्रवीचारिणामल्पसङ्क्लेशत्वात् । स्थितिप्रभावादिभिरधिका इति वक्ष्यते ( अ० ४, सू० २१ )॥ ९॥ टी०-ऐशानादूचं शेषा इत्यादि भाष्यम् । सनत्कुमारमाहेन्द्रयोर्दैवान् मैथुनप्राप्तीच्छाभिमुखीकृतानुत्पन्नास्थान् प्रादुर्भूतादरानवबुध्य सौधर्मेशानदेव्य उपतिष्ठन्ते, तत्प्रभावादेव परिज्ञाताभिप्रायाः, अपरिगृहीता गणिकास्थानीयाः अप्सरसः, तासां जघन्येन सौधर्मकल्पनिवासिनीनां स्थितिरेकं पल्योपममुत्कर्षेण पञ्चाशत् पल्योपमानि, ऐशाने त्वपरिगृहीतानां जघन्येन सातिरेक पल्योपममुत्कर्षेण पञ्चपञ्चाशत् पल्योपमानि । तत्र सौधर्मनिवासिनीनामप्सरसां पल्योपमं समयाद्यधिक स्थितिः यासां यावद् दश पल्योपमानि ताः सनकुमारकल्पवासिदेवभोग्या भवन्ति, यासां च सौधर्मे दश पल्योपमानि समयाधिकानि याव द्विशतिपल्योपमानि स्थितिरप्सरसांता ब्रह्मलोककल्पवासिदेवभोग्याः,तथा देवीभोगा सौधर्म एव यासां स्थितिरप्सरसां विंशतिपल्योपमानि समयाद्यधिकानि यावत्रिंशत्पल्योपमानि ता देव्यो शुक्र( कल्प)वासिदेवभोग्याः, तथा सौधर्म एव यासामप्सरसां स्थितिस्त्रिंशत्पल्योपमानि समयाद्यधिकानि यावच्चत्वारिंशत्पल्योपमानिता देव्य आनतकल्पवासिदेवभोग्याः,तथा सौधर्म एव यासामप्सरसां स्थितिः चत्वारिंशत्पल्योपमानि समयाद्यधिकानि यावत् पञ्चाशत् ता आरणकल्पवासिदेवोपभोग्याः, ऐशानकल्पे यासांसातिरेकपल्योपमं समयाद्यधिक स्थितिर्यावत् पञ्चदश पल्योपमानि ता माहेन्द्रकल्पवासिदेवभोग्याः, तथैशान एव यासां पञ्चदश पल्योपमानि स्थितिः समयाद्यधिकानि यावत् पञ्चविंशतिपल्योपमानि ता लान्तककल्पवासिदेवभोग्याः, अमिन्नेवैशाने यासां पञ्चविंशतिः पल्योपमानि समयाद्यधिकानि स्थितिः यावत् पञ्चविंशतिपल्योपमानि ताः सहस्रारकल्पवासिनां भोग्याः, तथैशान एव यासां पञ्चत्रिंशत् पल्योपमानि समयावधिकानि यावत् पञ्चचत्वारिंशत्पल्योपमानि स्थितिस्ताः प्राणतकल्पवासिदेवोपभोग्याः, तस्मिन्नेवैशाने यासां स्थितिः पञ्चचत्वारिंशत्पल्योपमानि समयावधिकानि यावत् पञ्चपञ्चाशत्पल्योपमानिता देव्योऽच्युतकल्पवासिदेवोपभोग्या भवन्ति । यासां पल्योपमं स्थितिर्देवीनां समयाद्यधिकं यावत् सप्त पल्योपमानि ताः सौधर्मकल्पवासिनां परिग्रहः, ऐशानकल्पे तु यासां सातिरेकं पल्योपमं समयावधिकं स्थितिर्यावन्नव पल्योपमानि तास्तन्निवासिदेवपरिग्रह इति । अत्र चापरिगृहीता वेश्यास्थानीया अधस्तनकल्पद्वयोत्पन्ना अपि उपरितनकल्पान् गच्छन्ति तद्देवप्रभावादेवेति ॥ धिकारः १ ' शुक्रदेवभोग्याः ' इति क-पाठः, · महाशुक्रवासि० ' इति तु ग-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy