________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४
टी० - पूर्वयोरित्यादि भाष्यम् । शास्त्रीयमानुपूर्व्यमाश्रित्य निर्देशः, पीता अन्ते यासां लेश्यानां ताः पीतान्ताः – कृष्णनील कापोततैजस्यः, पीतान्ता लेश्या येषां ते पीतान्तलेश्याः, पूर्वयोर्निकाययोर्देवा भवन्ति, शरीरवर्णमात्रेत्वाद् द्रव्यलेश्या एताः, भावलेश्यास्तु षडपि भवेयुरिति ॥ ७ ॥
देवानां त्रैविध्यम्
एते च पुनः सर्वे त्रिविधा देवा भवन्ति - सदेवीकाः सप्रवीचाराः, अदेवीकाः सप्रवीचाराः, अदेवीका अप्रवीचारा इति । तत्र ये सदेवीकाः प्रवीचारास्तानधिकृत्येदमुच्यते
सूत्रम् - कायप्रवीचारा आ ऐशानात् ॥ ४-८ ॥
भा०- भवनवास्यादयो देवा आ ऐशानात् कायप्रवीचारा भवन्ति । कायेन प्रवीचार एषामिति । कायप्रवीचारो नाम मैथुनविषयोपसेवनम् । प्रवीचारविचारः ते हि सक्लिष्टकर्माणो मनुष्यवन्मैथुनसुखमनुप्रलीयमानास्तीव्रानुशयाः कायसङ्क्लेशजं सर्वाङ्गीणं स्पर्शसुखमवाप्य प्रीतिमुपलभन्त इति ॥८॥ टी. - काय :- शरीरं, प्रवीचारो-मैथुनोपसेवा, कायेन प्रवीचार एषामिति काय प्रवीचाराः - पुरुषवन्मैथुनमासेवन्ते भवनवास्यादयः आ ऐशानात्, अभिविधावयमाङ्, न मर्यादायां, यस्माद् भवनवासिव्यन्तरज्योतिष्कसौधर्मेशानकल्पेषु जन्मनोत्पद्यन्ते देव्यः, न परत इति, भाष्यं सुज्ञानमेव ॥ ८ ॥
0
अथ ये अदेवीकाः सप्रवीचारास्तेषां कथं मैथुनोपसेवेत्याह
सूत्रम् - शेषाः स्पर्श रूप शब्द मनःप्रवीचारा ज्योर्द्वयोः ॥ ४-९ ॥
भा०- ऐशानादूर्ध्वं शेषाः कल्पोपपन्ना देवा द्वयोर्द्वयोः कल्पयोः स्पर्शरूपशब्दमनःप्रवीचारा भवन्ति यथासङ्ख्यम् । तद्यथा - सनत्कुमारमा - हेन्द्रयोर्देवान् मैथुनसुखप्रेप्सूनुत्पन्नास्थान् विदित्वा देव्य उपतिष्ठन्ते । ताः स्पृष्ट्वैव च ते प्रीतिमुपलभन्ते विनिवृत्तास्थाश्च भवन्ति ॥ तथा ब्रह्मलोकलान्तकयोर्देवान् एवंभूतोत्पन्नास्थान् विदित्वा देव्यो दिव्यानि स्वभावभास्वराणि सर्वाङ्गमनोहराणि शृङ्गारोदाराभिजाता कारविलासान्युज्ज्वलचारुवेषाभरणानि स्वानि रूपाणि दर्शयन्ति । तानि दृष्ट्वैव ते प्रीतिमुपलभन्ते निवृत्तास्थाश्च भवन्ति । तथा महाशुक्रसहस्रारयोर्देवानुत्पन्नप्रवीचारास्थान् विदित्वा देव्यः श्रुतिविषयसुखानत्यन्तमनोहरान् शृङ्गारोदाराभिजातविलासाभिलाषच्छेद्तलतालाभरणरवमिश्रान् हसितकथितगीतशब्दानुदीरयन्ति । तान् श्रुत्वैव प्रीतिमुपलभन्ते निवृ१ टीकाकारमतमेतत् यदुत शरीरवर्णरूपा लेश्या, अन्ये तु योगपरिणामो लेश्या, लेश्यापुद्गलास्तु अन्य एवागमेषु निर्दिश्यन्ते ।
२७८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org