________________
सूत्र १३ ] स्वोपज्ञमाष्य-टीकालङ्कृतम्
२८५ न्तीति । तथा मनुष्यानपि केचिद् भृत्यवदुपचरन्ति चक्रधरादीनतो विगतान्तरा मनुष्येभ्योऽविशिष्टाः केचिद्व्यन्तराः। विविधेषु वा शैलकन्दरान्तरादिषु प्रतिवसन्ति तिर्यग्लोक इति व्यन्तराः, निकायद्वयान्तरस्थायित्वाद् व्यन्तराः प्रसिद्धत्वाद्, गोसंज्ञावदिति । रत्नप्रभायां त्वेषां तिर्यगस ख्येयानि भवनानि भवन्ति यथोद्दिष्टावगाहलक्षणक्रमाद् दक्षिणोत्तरदिग्भेदावस्थायिनोऽष्टास्वपि भेदेषु वक्तव्याः। भेदाचैषां किन्नरादीनां स्वस्थाने भाष्यकृता वहवो निदार्शतास्ते चार्षे सूचिता लेशतो न प्रतिपदमधीताः । शेषं पठितसिद्धमिति ॥ १२ ॥
__ अधुना तृतीयो देवनिकायोऽवसरप्राप्त उच्यतेसूत्रम्---ज्योतिष्काः-सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाश्च ॥४-१३॥ भा०-ज्योतिष्काः पञ्चविधा भवन्ति । तद्यथा-सूर्याश्चन्द्रमसो ग्रहा
नक्षत्राणि प्रकीणेतारका इति पञ्चविधा ज्योतिष्का इति । ज्योतिष्कभेदाः
" असमासकरणमा च सूर्यःचन्द्रमसोः क्रमभेदः कृतः, यथा गम्येत एतदेवैषामूर्ध्वनिवेशे आनुपूमिति । तद्यथा-सर्वाधस्तात् सूर्यास्ततश्चन्द्रमसस्ततो ग्रहास्ततो नक्षत्राणि ततो विप्रकीर्णताराः। ताराग्रहास्त्वनियतचारित्वात् सूर्यचन्द्रमसामूर्ध्वमधश्च चरन्ति, सुर्येभ्यो दशयोजनाविलाम्बनो भवन्तीति । समाद् भूमिभागादष्टासु योजनशतेषु सूर्याः, ततो योजनानामशीत्यां चन्द्रमसः, ततो विंशत्यां तारा इति । द्योतयन्त इति ज्योतीषि-विमानानि तेषु भवा ज्योतिष्काः ज्योतिषो वा देवा ज्योतिरेव वा ज्योतिष्काः। मुकुटेषु शिरोमुकुटोपाहिभिः प्रभामण्डलकल्पैरुज्ज्वलैः सूर्यचन्द्रतारामण्डलैर्यथास्वं चिरैर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्तीति ॥ १३ ॥
टी०-ज्योतिष्काः पञ्चविधा भवन्तीत्यादि भाष्यम् । असमासकरणे पारमर्षप्रवचनक्रमभेदे च प्रयोजनमाह-असमासकरणात् तावत् तिर्यमण्डलिकयाऽवस्थानं निषिध्यते, उपर्युपर्यवस्थानं कथं नाम गम्येत ? क्रमभेदोऽप्यमुनैव क्रमेणो मेषां सन्निवेश इत्यनेनाभिप्रायेण, आर्षे तु पाक चन्द्रः पठ्यते पश्चात् सूर्य इति । न चैवमुपरि सनिवेशः । तत्र समतलाद् भूमिभागादारुह्योपरि सप्त योजनशतानि नवत्यधिकानि प्रथमो ज्योतिष्कविमानप्रस्तारः, तदुपरि दशयोजनशतान्यारुह्य भानोर्विमानप्रस्तारः, तदुपर्यशीतियोजनान्यारुह्य ज्योतिष्काणां वि- चन्द्रमसो विमानप्रस्तारः, तदुपरि विंशतियोजनान्यारुह्य ताराग्रहाणां मानप्रस्तारः विमानप्रस्तारः, एवमयं ज्योतिर्लोको दशोत्तरयोजनशतबहुल एकादश
१' द्योतींषि ' इति घ-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org