________________
२६० तत्वार्थाधिगमसूत्रम्
[ अध्यायः ३ क्रमेण जातमिदं । २९७८८८४ ) अधस्त्योऽर्धेन च्छिन्नो जातमिदं २७४९५४ । अस्य राशेरेकोनविंशत्या भागलब्धमिदं १४४७१ । कलाश्च पश्च । शेषं यदुद्धरितं तत्रैका न्यूना कला लभ्यत इत्येषा जीवा ।।
अधुना करणसूत्रमिषोरानयनाय-ज्याविष्कम्भयोर्वर्गविशेषमूलं विष्कम्भाछोध्यं शेषामिषुः । जीवावर्गस्य विष्कम्भवर्गस्य च (यो) विशेपस्तस्य मूलं विष्कम्भाच्छोध्यते, शेषस्य यदधैं स इषुर्भवति, तत्र जीवावर्गोऽयं ७५६०००००००० विष्कम्भवर्गश्चायमेकषष्टयुत्तरत्रिशतगुणः ३६१०००००००० । अस्माज्जीवावर्गे विशुद्धे शेषमिदं भवति ३५३४४००००००००। अस्य मूलमादीयते, शून्याष्टकस्यार्धेन चत्वारि शून्यानि शेषस्य मूलमेव काष्ठकाष्ठकैर्लब्धमिदं १८८००००। एतद् विष्कम्भादेकोनविंशतिगुणाच्छोध्यम्, शेषं जातमिदं २०००० । अस्यार्धेनेदं १०००० । अस्यैकोनविंशत्या भागलब्धमिदं ५२६ षट् च कला इषुरिति ॥
अधुना धनुःकाष्ठानयनाय करणसूत्रम्-इघुवर्गस्य षगुणस्य ज्यावर्गयुक्तस्य [कृतस्य ] मूलं धनुःकाष्ठम् ॥ इषोः कलीकृतस्यायं वर्गः १०००००००० । एष षभिर्गुण्यते, जातमिदं ६०००००००० । एष ज्यावर्गे क्षिप्यते, ज्यावर्गवायं ७५६००. ०००००० । जातमिदं ७६२०००००००० । अस्य मूलमानं धनुःकाष्ठं भवति, तच्च द्विकसप्तषट्शून्यचतुष्कत्रिकैः क्रमेणादीयते, ततोऽयं राशिर्भवति अधस्त्यस्या-(२६२१५१)
१५५२०८६ धैन छिन्नस्यैकोनविंशत्या भागलब्धमिदं १४५२८ । एकादश चैकोनविंशतिभागा इति ॥
सम्प्रति विष्कम्भानयनाय करणसूत्रमिदम्-ज्यावर्गचतुर्भागयुक्तमिषुवर्गमिषुविभक्तं तत्प्रकृतिवृत्तविष्कम्भः ॥ जीवावर्गचतुर्भागेन युक्त इषुवर्गः इषुणा विभक्तः स्वभाववृत्तविष्कम्भो भवति, ज्यावर्गः ७५६०००००००० । अस्य चतुर्भागोऽयं १८९००००००००। एष इषुवर्गे क्षिप्यते, इषुवर्गवायं १००००००००। एकीकृतमिदं जातं १९००००००००० । भागपरावृत्या एकषष्टयधिकशतत्रयेणेषुर्गुण्यते, एकोनविंशतिभागेनैकः स गुणकार उपरितनस्य, इतरस्य चैकोनविंशतिभागेनैकोनविंशतिरेव, शून्यचतुष्कापगमे तया भागलब्धमिदं १००००० ॥
.. अधुना बाहुरानीयते, तत्रेदं करणसूत्रम्-उदग्धनुःकाष्ठाद् दक्षिणं शोध्यं शेषाधू बाहुरिति । अनेन करणाभ्युपायन क्षेत्राणां वैताढ्यादिपर्वतानामायामविष्कम्भज्येषुधनुःकाष्ठपरिमाणानि ज्ञातव्यानि ॥ उदग्धनुःकाष्ठमिदं २५२३० कला ४ चत्वारश्वकोनविंशतिभागाः, अमुष्माद् दक्षिणं धनुःकाष्ठं पात्यते, तश्चेदं १४५२८ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org