________________
सूत्रं ११ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
२५९
१२८, शेषमुपरीदं ८९८८८ । षण्णवत्यङ्गुलं धनुर्भवतीति वण्णवत्या गुण्यते, जातोऽङ्गुलंराशिः । भागलब्धमिदं १३, शेषमुपरी ४०७३४६ । द्वाभ्यां गुण्यते यतोऽर्धाङ्गुलद्वयेनैकमङ्गुलं भवति, जातोऽङ्गुलंराशिः, षडादिराशिना भागलब्धमिदं १ । शेषाचार्धागुल भागा एतावन्त उद्धरिताः १८२२३८ । अधस्तात् षडादिराशिः एष जम्बूद्वीपपरिधिः । वृत्तग्रहणं चतुरस्रादिक्षेत्र व्यावृत्यर्थम्, परिक्षेपग्रहणं विष्कम्भेषु जीवादिव्यावृत्त्यर्थमिति । अधुना गणितपदमानीयते जम्बूद्वीपस्य, तत्रेदं करणसूत्रम् ॥ स विष्कम्भपादाभ्यस्तो गणितं प्रक्रान्तविष्कम्भो लक्षैकपादः पञ्चविंशतिसहस्राणि विष्कम्भपादेनाभ्यस्तो - गुणितो विष्कम्भपादाभ्यस्तः, स इति परिधिः जम्बूद्वीपस्याभिसम्बध्यते, प्रक्रान्तार्थपरामर्शित्वात् सर्वनाम - शब्दानाम् । गणितमिति गणितपदमित्यर्थः । जम्बूद्वीपे योजनप्रमाणानि चतुरस्रखण्डान्येतावन्ति भवन्तीत्यर्थः । तत्र परिधियोजन राशिः पञ्चविंशतिसहस्रगुणितोऽयं ७९०५६७५००० । गव्यूतत्रितयं पञ्चविंशतिसहस्रगुणं जातमिदं ७५००० । गव्यूतराशिवायं योजनीक्रियते । चतुर्भिर्भागलब्धमिदं १८७५० | योजनराशिरयम् । धनुरपि पञ्चविंशतिसहस्रगुणः, जातमिदं ३२००००० । अयमपि धनुराशियजनीक्रियते । अष्टौ धनुःसहस्राणि योजनं भवतीति वचनात् अष्टाभिः सहस्रैर्भागलब्धमिदं ४०० । अयमपि योजनराशिरनन्तरराशौ प्रक्षिप्तः, जातमिदं - १९१५० | अयमपि च सप्तकोटिशतादिराशौ, जातमिदं ७९०५६९४१५० । अङ्गुलराशिः पञ्चविंशतिसहस्रगुणो जातमिदं ३२५००० । अर्धाङ्गुलं पञ्चविंशतिसहस्रगुणं जातमिदं २५००० । अस्यार्धाङ्गुलराशेरधं गृह्यते ततोऽङ्गुलानि लभ्यन्तेऽमूनि १२५०० । एतान्यङ्गुलराशौ क्षिप्यन्ते, जातमिदं ३३७५०० । ततः षण्णवत्या भागो यस्मात् षण्णवत्यङ्गुलं धनुर्भवति । भागलब्धमिदंं ३५१५ । अयं धनुराशिः, शेषमङगुलानां षष्टिः । अस्य धनुराशेर्भागः सहस्रद्वयेन, लब्धमेकं गव्यूतं शेषमिदं १५१५ ॥
I
अधुना जीवानयनमुच्यते - इच्छावगाहोनावगाहाभ्यस्तविष्कम्भस्य चतुर्गुणमूलं ज्या || ईप्सितोऽवगाहो यावान् स इच्छावगाहस्तेनोनो विष्कम्भः इच्छावगाहोनः पुनरवगाहेनाभ्यस्यते -गुण्यते, इच्छावगाहोन श्वासाववगाहाभ्यस्तथ इच्छावगाहोनावगाहाभ्यस्तः, तस्य पुनश्चतुर्भिर्गुणितस्य यन्मूलं सा मण्डलक्षेत्रस्य जीवा भवति । अत्र विष्कम्भो योजनलक्षः, एष ईप्सितावगाहोनः क्रियते, ईप्सितश्चायं ५२६ षट् च कला ६ । एप उपरितनो राशिः संवर्ण्यते कलीक्रियत इत्यर्थः । एकोनविंशत्या गुण्यते, जातमिदं ९९९४ । अत्र षट् कलाः क्षिप्यन्ते, जातमिदं १०००० । विष्कम्भराशिरपि संवर्ण्यते एकोनविंशत्या, जातमिदं १९००००० । एषोऽवगाहराशिरमुतः पात्यते, जातमिदं १८९०००० । पुनरवगाहराशिना गुण्यते, जातमिदं १८९०००००००० । ततचतुर्भिर्गुण्यते जातमिदं ७५६०००००००० । अस्य मूलं जीवा भवति, तच्च ग्राह्यं द्विसप्तचतुष्कनवपञ्चचतुष्ककैः,
१ (८६२९२४८ ) । २ (८१४६९२ ) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org