________________
सूत्र १२] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२६१ एकादश चैकोनविंशतिभागाः, पौतिते उपरितनराशिरयं १०७०२ । अधस्तादेकादश कला न पतन्ति चतसृभ्यः कलाभ्य इतिकृत्वा उपरितनराशि ददात्यर्धमतो रूपमेकमवतार्यते, एकोनविंशतिमध्यादेकादश शुद्धा अष्टौ शेषकलाचतुष्टयक्षेपाद्वादश, जाताः अर्धेन पद, उपरितनराशिनं ददात्यर्धमतो रूपमेकमवतार्यते एकोनविंशतिरपि नार्धे ददातीत्येकोनविशतिरूपमपनीयते, तस्यार्धेनार्धकलाः,अष्टादशानामर्धेन नवषट्कपञ्चदशकलाः सार्धा जाताः उपरितनराशेरर्धेनेदं ५३५०। एतावती बाहा क्षुल्लहिमवत इत्यनेन च परिक्षेपज्यानयनकरणाभ्युपायेन सर्वक्षेत्राणां सर्वपर्वतानां चायामविष्कम्भेषुधनुःकाष्ठप्रमाणान्यवगन्तव्यानीति । अपरे पुनर्विद्वांसोऽतिबहूनि स्वयं विरचय्यास्मिन् प्रस्तावे सूत्राण्यधीयते विस्तरदर्शनाभिप्रायेण, तन्न युक्तमयं सङ्ग्रहः सूरिणा संक्षेपः कृत इत्यतोत्र विस्तराभिधानमपाचीनमाचक्षते प्रवचननिपुणाः । अथ विस्तरतो विवक्षितस्ततो ग्रन्थलक्षपरिभाषिताया जम्बूद्वीपदेशनायाः पटुप्रज्ञैस्तैर्विस्तृणद्भिरपि कियदत्र विस्तृतं स्याद् ? विस्तरार्थिनो वा बहुगुणः सिद्धान्त एव तत्कृतसूत्रेभ्य इत्यत उपेक्षणीयस्तदभिप्राय इति ॥ ११॥ __ एवमिमां जम्बूद्वीपवक्तव्यतां परिसमाप्य समासतः सम्प्रति द्वीपान्तरवक्तव्यताभिधित्सपोवाच--
सूत्रम्-द्विर्धातकीखण्डे ॥ ३-१२॥ टी०-अस्य भाष्यम् । भा०-ये एते मन्दरवर्षवंशधरा जम्बूद्वीपेऽभिहिताः एते द्विगुणा धातकी
__ खण्डे द्वाभ्यामिष्वाकारपर्वताभ्यां दक्षिणोत्तरायताभ्यां विभधातकीखण्डे
इ. क्ताः । एभिरेव नामभिर्जम्बूदीपकसमसङ्ख्या पूर्वार्धेऽपकारौ च रार्धे च चकारसंस्थिता निषधसमोच्छायाः कालोदलवणजलस्पर्शिनो वंशधराः सेष्वाकारा अरविवरसंस्थिता वंशा इति ॥ १२ ॥
टी-ये एते मन्दरवर्षवंशेत्यादि भाष्यम् । लवणजलनिधेर्बहिर्धातकीखण्डो द्वीपो धातकीवृक्षसम्बन्धाद् वलयाकृतिः लक्षचतुष्टयविष्कम्भः, तस्मिन् धातकीखण्डे मन्दरादयो जम्बूद्वीपकमन्दरादिभ्यः सङ्ख्यया द्विगुणमाना वेदितव्याः, जम्बूद्वीपे मेरुरेकस्तत्र द्वौ पूर्वापरदिग्मध्यव्यवस्थितौ मेरू, वंशा भरतादिक्षेत्राण्यैरावतपर्यवसानानि, तानि तत्र द्विसङ्ख्यायुक्तानि प्रत्येकं २ । वंशधरा हिमवदादयः पर्वता वैताढयादयश्च तेऽपि तत्र द्विर्द्विः स्थिताः, एते च सर्वेऽपि मन्दरादयो द्वाभ्यामिष्वाकारपर्वताभ्यामृजुभ्यामित्यर्थः । दक्षिणोत्तरदिङ्मध्यव्यवस्थिताभ्यां दक्षिणोत्तरायताभ्यांच विभक्ताः-विच्छिन्नाः पूर्वार्धे चापरार्धे च व्यवस्थिताः, एभिरेव नामभिजेम्बद्वीपकैः समा सङ्ख्या येषां भरतादिप्रतिक्षेत्र जम्बू
'गास्यन्ते' इति ग-टी-पाठः। २' रवंशवर्षधरा' इति घ-पाठः । ३ ‘एतैरेव' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org