________________
२५२
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ३
प्रथममेखलायां तावत्प्रतिक्रान्तिविस्तृतं तावती चासौ प्रतिक्रान्तिश्च तावत्प्रतिक्रान्तिः, विस्तारः पञ्च योजनशतप्रमाण एव, तावत्प्रतिक्रान्त्या विस्तृतमेवंप्रकारेण विस्तीर्णमित्यर्थः । तच्च द्वितीयं वनं नन्दनं नाम । ततोऽर्धत्रिषष्टीत्यादि । त्रिपष्टिसहस्रसङ्ख्या पूरणस्य योजन सहस्रार्धेन युक्ता सङख्यार्धत्रिपष्टिरुच्यते । अत्र पञ्च योजनशतानि द्वितीयकाण्डप्रमाणादाक्षिप्तानि नन्दनवनेनेत्यतोऽर्धत्रिपष्टिसहस्राण्यारुह्योपरि पञ्चयोजनशतविस्तीर्णमेव द्वितीयमेखलायां सौमनसं वनं तृतीयं भवति । ततोऽप्युपरि षट्त्रिंशत् सहस्राण्यारुह्य चतुर्नवत्युत्तरैश्चतुर्भिर्योजनशतैर्विस्तीर्ण पाण्डुकं नाम वनं मेरोः शिरसि तुर्यमवसेयम् । अयं च मेरुगिरिर्न सर्वत्र समप्रमाणप्रवृद्ध:, किन्तु प्रदेशपरिहाण्या परिहीयमानः प्रवृद्ध इति । तद् दर्शयति - नन्दन सौमनसाभ्यामित्यादि । नन्दनादूर्ध्वं सामनसाच्चाधः किल मध्य एकादशैकादश योजन सहस्राण्यारुह्य योजनसहस्रं परिहीयते विष्कम्भस्येति, ऊर्ध्वं सौमनसान्नन्दनवनाच्चाधो न सूरिणा परिहाणिरुक्ता । प्रदेशपरिहाणिग्रहणमङ्गुलादिप्र (सिद्धधर्थमङ्गुलादि) ष्वप्ययमेव परिहाणिविधिरिति । एपा च परिहाणिराचार्योक्ता न मनागपि गणितप्रक्रिययौ सङ्गच्छते, यतः सौमनसवनेऽन्तर्विष्कम्भः सहस्रत्रयं शतद्वयं द्विसप्तत्यधिकमष्टौ चैकादशभागाः, वहिर्विष्कम्भः पुनः सहस्रचतुष्टयं शतद्वयं च द्विसप्तत्यधिकमष्टौ चैकादशभागा योजनस्य । तत्राचार्योक्तपरिहाण्या नैकोऽपि विष्कम्भ आगच्छति, न चैतावत्या चा ( सत्यावा) गमेऽधीतत्वाच्छ्रङ्गग्राहिकयेति । गणितशास्त्रविदो हि परिहाणिमन्यथा वर्णयन्त्यार्पानुसारिणः । मेरोर्योजनान्यूर्ध्वमेका लक्षा, तत्राधो भूमावश्यं योजन सहस्रमपचयरहितं, सर्वत्र च वृत्तविष्कम्भो योजनसहस्राणि दश, यद् दृश्यं तत्र परिहाणिः, भद्रशालवनादूर्ध्वं पञ्च योजनशतान्यारुह्य सर्वतश्च पञ्च योजनशतान्यन्तः प्रविश्य नन्दनवनं भवति । तत्र वने मेरोरन्तर्बहिर्वा कीदृगु विष्कम्भ इति, तत्रेदं कर्म त्रैराशिकभङ्गया -- यदि योजनमेकमारुह्योपरि वृत्तक्षेत्रेऽपचयः सर्वत्रैकादशभागो योजनस्य ततः पञ्च योजनशतान्यारुह्य कोऽपचयः स्यात् ? । लब्धं पञ्चचत्वारिंशद् योजनानि पञ्च चैकादशभागा योजनस्य, एतदधस्तनवृत्तदशसहस्र विष्कम्भादपास्य शेषमुपरि विष्कम्भो नन्दनवने बहिर्लभ्यत इति, स चायम्-नैव सहस्राणि नव शतानि चतुःपञ्चाशदधिकानि पट् चैकादशभागाः योजनस्य । अस्माच्च बहिर्विष्कम्भात् सर्वतो नन्दनवनचक्रवालविष्कम्भं पञ्चशतिकं द्विगुणमपास्यान्तर्विष्कम्भोऽयं नन्दनवन एव भवति - अष्टौ सहस्राणि नव शतानि चतुःपञ्चाशदधिकानि पट् चैकादश भागाः। इदानीं नन्दनवनादुपरि योजनसहस्राण्यर्धत्रिपष्टिरा (मा) रुह्य को मेरुविष्कम्भो वहिर्भवति । अत्रापि तदेव कर्म, यदि योजनमारुह्य वृत्तविष्कम्भे सर्वतोऽपचयो योजनस्यैकादशभागस्तत अरुह्यार्थ - त्रिपष्टिः(टिं) योजनसहस्राणि कोऽपचयो भवेदिति? लब्धं पञ्च सहस्राणि पट् शतान्येकाशीत्यधि
१ 'च्चाधोधो न' इति क- पाठः । २ ' प्रत्ययया' इति क-पाठः । ३ ३२७२,
६
६.
1
६९९५४६७८९५४८८५६८१,
Jain Education International
For Personal & Private Use Only
1
८
1 ४ ४२७२ । ५४५:
११
११
www.jainelibrary.org