________________
सूत्रं ९ ]
स्वोपज्ञभाष्य - टीकालङ्कृतम्
२५१
यथा शरीरमध्ये नाभिरवयवोऽङ्गनां भवत्येवमसौ मेरुर्जम्बुद्वीपस्य मध्ये व्यवस्थित इति मेरुनाभिरुच्यते । कण्ठेकालवद् गमकत्वात् समासः । व्यधिकरणबहुव्रीहिभीत्या वाक्यान्तरेणाह - मेरुर्वाऽस्य नाभिरिति मेरुनाभिः, नाभिशब्दो मध्यवचन इति दर्शयति, मेरुरस्य मध्ये इत्यर्थः । वृत्त इत्यनेन प्रतरवृत्ताख्यानं करोति, तत्प्रदर्शनार्थं च कुलालचक्राकृतिरित्याह ।
भा०-- लवणाद्यो वलयवृत्ताः, जम्बूद्वीपस्तु प्रतरवृत्त इति यथा गम्येत, वलयाकृतिभिश्चतुरस्रभ्यस्त्रयोरपि परिक्षेपो विद्यते तथा च मेरुस्वरूपम् मा भूदिति ॥ मेरुरपि काञ्चनस्थालनाभिरिव वृत्तो योजनसहस्रमधो धरणितलमवगाढः नवनवत्युच्छ्रितः दशाधो विस्तृतः सहस्रमुपरीति । त्रिकाण्डत्रिलोकप्रविभक्तमूर्तिश्चतुर्भिर्वनैर्भद्रशाल नन्दन सौमनसपाण्डुकैः परिवृतः । तत्र शुद्धपृथिव्युपलवज्रशर्कराबहुलं योजन सहस्रमेकं प्रथमं काण्डम् । द्वितीयं त्रिषष्टिसहस्राणि रजतजातरूपाङ्कस्फटिक बहुलम् । तृतीयं षट्त्रिंशत् सहस्राणि जाम्बूनदबहुलम् । वैडूर्यबहुलाऽस्य चूलिका चत्वारिंशद् योजनान्युच्छ्रायेण मूले द्वादश विष्कम्भेण मध्येऽष्टावुपरि चत्वारीति । मूले वलयपरिक्षेपि भद्रशालवनम् । भद्रशालवनात् पञ्च योजनशतान्यारुह्य तावत्प्रतिक्रान्तिविस्तृतं नन्दनम् । ततोऽर्धत्रिषष्टिसहस्राण्यारुह्य पञ्चयोजनशतप्रतिकान्तिविस्तृतमेव सौमनसम् । ततोऽपि पत्रिंशत् सहस्राण्यारुह्य चतुर्नवतिचतु:शतप्रतिक्रान्तिविस्तृतं पाण्डुकवनमिति । नन्दनसौमनसाभ्यामेकादशैकादश सहस्राण्यारुह्य प्रदेशपरिहाणिर्विष्कम्भस्येति ॥ ९ ॥
टी० - लवणादयो वलयवृत्ताः । अयं पुनः कुलालचक्रवत् प्रतरवृत्त इति नियम आपाद्यते, योजनेयत्ताभिधानं तच्छेषविष्कम्भप्रसिद्ध्यर्थम्, न वलयाकृतिना लवणजलधिना परिक्षिप्त इति वृत्तताऽवगम्यते यस्माद् वलयाकृतिभिश्चतुरस्रत्रयस्त्रयोरपि परिक्षेपो विद्यत इति प्रेक्षापूर्व कारितया च मेरुर्विशेषणतयोपात्तस्तत्स्वरूपमप्याख्यास्यामीत्यत आह- मेरुरपि काञ्चनस्थानाभिरिव वृत्तः काञ्चनस्थार्ल -काञ्चनपात्री तन्मध्ये नाभिस्तद्वद् वृत्तः, अधस्ताद् योजनसहस्रं प्रविष्टः नवनवतिसहस्राणि दृश्योच्छ्रायः, यददृश्यं सहस्रं भूमौ तत् सर्वत्र विष्कम्भायामाभ्यां दश सहस्राणि, उपरि सहस्रं यत्र चूलिकोद्गमः । काण्डं विशिष्टप्रमाणानुगतो विच्छेदः । त्रिकाण्डः त्रिलोकस्पृक् चतुर्भिर्वनैभद्रशालाभिर्वेष्टितः । तत्र च यद् भूमाववगाढं पृथिव्यादिविशेषणं योजन सहस्रप्रमाणं तदेकं काण्डम्, भूपरितलारब्धं द्वितीयं त्रिषष्टियोजन सहस्राणि रजतादिविशेषणं, तृतीयं तदुपरि षट्त्रिंशत् सहस्राणि जम्बूनदबहुलं, ततस्तदुपरि वैडूर्यबहुला चूलिकाऽस्य चत्वारिंशद्योजनोच्चा, उद्गमप्रदेशे विष्कम्भायामाभ्यां द्वादश योजनानि, मध्येऽष्टौ उपरि चत्वारि । भूमौ व्यवस्थितं भद्रशालवनं वलयाकृति, भद्रशालवनभूमेः पञ्च योजनशतान्यारुह्योपरि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org