________________
२५० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ३ पिणो वलयाकृतयश्च प्रत्येतव्याः ॥ ननु चानिख़तमेवेदं द्विर्द्विर्विष्कम्भा इति, सति मौलविष्कम्भे नितिस्वरूपे युज्यत एतच्छेपाणां, द्विगुण इत्यत्र तु स एव न निरूपित इत्यत्राशङ्कमान आह
भा०-योजनशतसहस्रं विष्कम्भो जम्बूद्वीपस्य वक्ष्यते (सू०९)।तद्विगुणो लवणजलसमुद्रस्य, लवणजलसमुद्रविष्कम्भाद् द्विगुणो धातकीखण्डद्वीपस्य,इत्येवमास्वयम्भूरमणसमुद्रादिति ॥पूर्वपूर्वपरिक्षेपिणः । सर्वे पूर्वपूर्वपरिक्षेपिणः प्रत्येतव्याः । जम्बूद्वीपो लवणसमुद्रेण परिक्षिप्तः। लवणजलसमुद्रो धातकीखण्डद्वीपेन परिक्षिसः । धातकीखण्डद्वीपः कालोदसमुद्रेण परिक्षिप्तः। कालोदसमुद्रः पुष्करवरद्वीपार्धन परिक्षिप्तः । पुष्करवरद्वीपार्धमानुषोत्तरेण पर्वतेन परिक्षिप्तम् । पुष्करवरद्वीपः पुष्करवरादेन समुद्रेण परिक्षिप्तः । एवमास्वयम्भूरमणात् समुद्रादिति ॥ वलयाकृतयः। सर्वे च ते वलयाकृतयः सह मानुषोत्तरेणेति ॥८॥
टी-योजनशतसहस्रं जम्बूद्वीपविष्कम्भो वक्ष्यते अनन्तरागामिनि सूत्रे । शेषेषु लवणजलादिपु द्विगुणद्विगुण इति पूर्व पूर्व उत्तरेणोत्तरेण परिक्षिप्तो-वेष्टितस्तच्छीलेनेति, एतच्चानिष्टविनिवेशव्यावृत्त्यर्थं वचनम्, तिर्यगेवं व्यवस्थिता इत्यर्थः । वलयस्येवाकृतिः-संस्थान येषां लवणजलादीनां ते वलयाकृतयः, चतुरस्रादिनिवृत्त्यर्थ चेदमवगतव्यम्, शेष सुज्ञानमेव भाष्यमित्यतो न विवियत इति ॥ ८॥
वलयाकृतयो द्वीपा इत्यनन्तरसूत्रेऽभिहितम्, अतो जम्बूद्वीपस्यापि द्वीपत्वाद् वलयाक तिप्रसक्तिस्तदपवादायेदमुच्यते
सूत्रम्--तन्मध्ये मेरुनाभिवृत्तो योजनशतसहस्र
विष्कम्भो जम्बूद्वीपः ॥ ३-९॥ टी०-जम्बूतरुप्रधानत्वाजम्बूद्वीपः। भा०-तेषां द्वीपसमुद्राणांमध्ये तन्मध्ये। मेरुनाभिः, मेरुरस्य नाभ्यामिति
__ मेाऽस्य नाभिरिति मेरुनाभिः । मेरुरस्य मध्ये इत्यर्थः ।
- सर्वद्वीपसमुद्राभ्यन्तरो वृत्तः कुलालचक्राकृतिर्योजनशतस हस्रविष्कम्भो जम्बूद्वीपः, वृत्तग्रहणं नियमार्थम् ।
टी०–तेषामित्यादि भाष्यम् । अनेन विशिष्टसमासप्रतिपत्तिं दर्शयति । तेषामसङ्ख्येयानामुक्तलक्षणानां द्वीपसमुदाणां मध्ये तन्मध्ये इति, मध्यमत्र नैश्चयिक, न व्यावहारिकमिति । अन्येऽपि जम्बूद्वीपाः सन्त्यतो विशेषण माह-मेरुनाभिरिति । नाभिरिव नाभिः,
१ योजन = ४००० कोशाः । २ 'पुष्करद्वीपाध' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org