________________
सूत्र १०] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२५३ कानि नव चैकादशभागा योजनस्य । एतन्नन्दनवनान्तर्विष्कम्भादपास्य शेषमुपरि सौमनसेऽन्तर्विष्कम्भो लभ्यते । स चायम्-त्रीणि सहस्राणि शतद्वयं च द्विसप्तत्यधिकमष्टौ चैकादशभागा योजनस्येति। अस्मिन्नेव सौमनसान्तर्विष्कम्भे सौमनसवनचक्रवालविष्कम्भं पञ्च[विं]शतिकं द्विगुणं निधाय बहिर्विष्कम्भो लभ्यते, स चायम् चैत्वारि सहस्राणि द्वे शते द्वयुत्तरसप्तत्यधिके अष्टौ चैकादशभागा इति । इदानीं सौमनसवनादारुह्योपरि षट्त्रिंशद्योजनसहस्राणि पाण्डकवनं भवति । तस्य च विष्कम्भो योजनसहस्रम्, सौमनसवनाद् योजनमारुह्य कोऽपचयो भवतीति नाभिहितः । स चायमपचयो गणितधर्मेण भवति-यदि योजनमेकमारुह्य योजनस्य षण्णवतित्रिशतभागाः पञ्चविंशतिक्षयः (१)सर्वतस्ततः पत्रिंशन योजनसहस्राण्यारुह्य कोऽपचयो भवेदिति ? लब्धं संहस्रत्रयं शतद्वयं च द्वयुत्तरसप्तत्यधिकं योजनैकादशभागाश्वाष्टौ । एतत् सौमनसवनाभ्यन्तरविष्कम्भादपास्यं स्यात्, शेषमुपरि पाण्डुकवनस्य वृत्तविकम्भो योजनसहस्रमिति॥९॥
स एवंविधो जम्बूद्वीपः सप्तक्षेत्रात्मको बोद्धव्यः । तानि चामूनिसूत्रम्-तत्र भरत-हैमवत-हरि-विदेह-रम्यक हैरण्यवतैरावतवर्षाः
क्षेत्राणि ॥ ३-१०॥
भा०-तत्र जम्बूद्वीपे भैरतहैमवतहरयो विदेहाः रम्यकरूपम् व हैरण्यवतमैरावतमिति वंशाःक्षेत्राणि भवन्ति । भरतस्योत्तरतः
हरण्यवतमराव
- हैमवतम् । हैमवतस्योत्तरतः हरयः । इत्येवं शेषाः। वंशा वर्षा वास्या इति चैषां गुणतः पर्यायनामानि भवन्ति ।।
टी-तत्र जम्बूद्वीप इत्यादि भाष्यम् । तत्रोक्तलक्षणे, जम्बूद्वीप इत्यनेनैतद् दर्शयतिन द्वीपान्तराण्येतानि भरतादीनि, किन्तु जम्बूद्वीपस्यैवैकस्य विशिष्टावधिका विभागा इति, जगतः स्थितेरनादित्वात् संज्ञामात्रम् भरतदेवनिवाससम्बन्धाद्वा भरतं भारतं वा, हिमवतोऽदूरभवत्वाद हैमवतम्, हरयो विदेहाश्च पञ्चालतुल्याः , रम्यकमिति संज्ञायां कन्, हैरण्यवत् हैरण्यवतदेवनिवाससम्बन्धात, तथैरावतमपीति । एवमेते सप्त वंशा वर्षाः क्षेत्राणीत्यनर्थातरत्वं दर्शयति । अधुना विशिष्टक्रमसन्निवेशप्रदर्शनाभिधित्सया आह-भरतस्योत्तरतो हैमवतमित्यादि गतार्थ प्रायः । वंशादीनि गुणतः पर्यायनामानि भवन्तीति । वंशाः किल पर्ववन्तो भवन्ति तद्वत् पर्वभागविभजनाद् वंशा एवामी भरतादयः, वर्षसन्निधानाच वर्षाः, मनुजादिनिवासाच्च वास्याः ।
१ ३२७२६ । २ ४२७२० । ३ ३२७२० । ४ भरतं हैमवतं हरयो' इति घ-पाठः ।
भरतादिक्षत्रस्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org