SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ नरक २३६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ३ दक्षिणतः, उत्तरतो महारथः, मध्ये चाप्रतिष्ठाननरकेन्द्रकः, स च सकलनरकेन्द्रकपर्यन्तवर्ती, न ततः परमन्यो नरकसत्त्वावासः समस्ति । तत्रभा०-रत्नप्रभायां नरकाणां प्रस्तरास्त्रयोदश । विवयूनाः शेषासु ॥ . रत्नप्रभायां नरकावासानां त्रिंशच्छतसहस्राणि । शेषासु प्रस्तराणां नरकावासानां पञ्चविंशतिः पञ्चदश दश त्रीणि एकं पञ्चोनं नरकशतसहस्र च संख्या मित्याषष्ठयाः, सप्तम्यां तु पश्चैव महानरका इति ॥२॥ टी०-रत्नप्रभाथिव्यां नरकप्रस्तरास्त्रयोदश वेश्मभ्रमिकाकल्पाः। द्विद्वथनाः शेषासु-शर्कराप्रभादिषु महातमःप्रभापर्यवसानासु, त्रयोदश द्वधनाः द्वितीयस्यामेकादश प्रस्तराः, एकादश द्वयूनाः तृतीयस्यां नवप्रस्तराः, नव द्वथूनास्तुर्यवसुधायां सप्त, सप्त द्वथूनाः पञ्चम्यां पञ्च, पञ्च द्वयूनाः षष्ठयां त्रयः, त्रयो द्वथूनाः सप्तम्यामेक इति ॥ कियन्तः पुनरेकैकस्यां भूमौ नरका इति तत्प्रसिद्धयर्थमाह-रत्नप्रभायामित्यादि । रत्नप्रभाषामावलिकाप्रविष्टनरकाणां चत्वारि सहस्राणि त्रयस्त्रिंशदुत्तरचतुःशताधिकानि, प्रकीर्णकानामेकोनत्रिंशल्लक्षाः पञ्चनवतिसहस्राणि पञ्च शतानि सप्तषष्टयधिकानि, उभयेऽप्येकीकृतास्त्रिंशल्लक्षा भवन्ति प्रथमायाम्, शेषासु पञ्चविंशतिरित्यादि । शर्कराप्रभादिषु सप्तम्यन्तासु यथाक्रममेतत्परिमाणमावेदयति नरकाणाम, द्वितीयस्यामावलिकाप्रविष्टानां षइविंशतिशतानि पञ्चनवत्यधिकानि, प्रकीर्णकानां चतुर्विंशतिर्लक्षाः सप्तनवतिसहस्राणि शतत्रयं पश्चोत्तरम् , एकत्र पञ्चविंशतिलेक्षाः। तृतीयस्यामावलिकाप्रविष्टानां चतुदेश शतानि पञ्चाशीत्यधिकानि, प्रकीर्णकानां चतुर्दश लक्षाः सहस्राण्यष्टानवतिः पञ्च शतानि पञ्चदशोत्तराणि, एकत्र पञ्चदश लक्षाः । चतुथ्योमावलिकाप्रविष्टानां सप्त शतानि सप्तोत्तराणि, प्रकीर्णकानां नव लक्षाः सहस्राणि नवनवतिः द्वे शते त्रिनवत्यधिके, एकत्र दश लक्षाः। पञ्चम्यामावलिकाप्रविष्टानां द्वे शते पञ्चषष्टयधिके, प्रकीर्णकानां द्वे लक्षे नवनवतिसहस्राणि सप्त च शतानि पञ्चत्रिंशदधिकानि, एकत्र तिस्रो लक्षाः पष्ठ्यामावलिकाप्रविष्टानां त्रिपष्टिः,प्रकीर्णकानां नवनवतिसहस्राणि नव शतानि द्वात्रिंशदधिकानि, एकत्र नरकपञ्चकोनैकलक्षाः। सप्तम्यांतु पश्चैव नरकाः, प्रकीर्णका न सन्त्येवेति । अत्र रत्नप्रभात आरभ्य आषष्ठ्याः केचिभरकाः सङ्ख्येयानि योजनसहस्राणि आयामविष्कम्भपरिधिभिः, केचिदसङ्ख्येयानीति, सप्तम्यामप्रतिष्ठाननरकेन्द्रको विष्कम्भायामपरिधिभिर्जम्बूद्धीपतुल्यः, कालादयस्तु चत्वारोऽ. संख्येयानि योजनसहस्राणि विष्कम्भायामपरिधिभिः, सर्वे चैते नरका बुध्नप्रदेशे योजनसहस्रबहलाः, मध्येऽपि योजनसहस्रप्रमाणशुषिरभाजः, उपर्यपि सङ्कुचिता योजनसहस्रमेवमेते नरकास्तासु रत्नप्रभादिभूमिषु महातम प्रभापर्यवसानासु व्यवस्थिताः पृथिव्यादिवदना१ 'नरकाः' इति घ-टी-पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy