________________
सूत्रं ३] स्वोपन्नभाष्य टीकालङ्कृतम्
२३७ दिकालसनिवेशिनः पृथुपापविपाकभाजां सचानामाश्रयाः वज्रकुडघमयोः नित्यान्धतमसाथ वेदितव्याः । विशेषार्थिना चावलिकाप्रविष्टवृत्तव्यस्रचतुरस्रयत्तापरिज्ञानाय देवेन्द्रनरकेन्द्रकप्रकरणमपेक्षणीयमिति ॥ २॥ किञ्चान्यत् ।। सूत्रम्-तेषु नारका नित्याशुभतरलेश्यापरिणामदेहवेदना
विक्रियाः॥ ३-३॥ टी-तेषु व्यावर्णितलक्षणेषु, नरकेषु भवा नारकाः । नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः, अथवोभयमाक्षिप्यतेऽनेन नरकाः नारकाच, तेषु नित्याशुभेत्यादि सूत्रम्, इह सूत्रे नरका नारकाश्च उभये परिगृह्यन्ते, प्रस्तावानरका लेश्यादेहवेदना. विक्रियासम्भवान्नारकाः, नित्यशब्दोऽभीक्ष्णवचनो नित्यप्रहसितादिवत, नित्याशुभतरलेश्यादयो येषु येषां वा ते नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः॥
भा०–ते नरका भूमिक्रमेणाधोधो निर्माणतोऽशुभतराः । अशुभा रत्ननरकनारकाणां प्रभायाम्, ततोऽशुभतराः शर्कराप्रभायाम्, ततोऽप्यशुभतरा स्वरूपम् वालुकाप्रभायाम्, इत्येवमासप्तम्याः ॥
टी-ते नरका इत्यादि भाष्यम् । प्राक्तनसूत्रनिरूपिताः सर्वनामशब्देनात्र गृह्यन्ते नरकाः सीमन्तकादयोऽप्रतिष्ठानपर्यन्ताः,रत्नप्रभादिभूक्रमेणाधोनिर्माणतः संस्थाननिवृत्तेः, अशुभतरा भयानकाः, अशुभा रत्नप्रभायामधस्तनीष्वशुभतरा अशुभतमाश्चेत्याससम्याः । एतद् भाष्यकारेण सामान्यतो युक्तमेव व्याख्यातम्, न पुनरशुभग्रहणमस्ति सूत्रे, यच्चाशुभतरग्रहणं तल्लेश्यादिभिः सम्बद्धम्, अतःसामान्यव्याख्यानमिदं प्रतिपत्तव्यम्, एकशेषनिर्देशाद वा सिद्धम् ॥
सम्प्रति नित्यार्थमाचष्टे
भा०—नित्यग्रहणं गतिजातिशरीराङ्गोपाङ्गकर्मनियमादेते लेश्यायो भावा नरकगतौ नरकंजातौ च नैरन्तर्येणाभवक्षयादतनाद् भवन्ति, न च कदाचिदक्षिनिमेषमात्रमपि, न शुभा वा भवन्तीत्यतो नित्या उच्यन्ते ।
टी-नित्यग्रहणं गतिजाति नियमादेते लेश्यादय इत्यादि । नित्यशब्दोपादानमत्र नरकगतिनरकपञ्चेन्द्रियजात्योर्नियमादशुभतरलेश्यादिभिः सम्बन्धप्रतिपादनार्थम्,
१ 'वज्रकुम्भमयाः" इति क-पाठः । २ . तेषु नारका' इति घ-पुस्तके नास्ति । ३ 'नारका' इति क-पाठः । ४ 'सप्तम्याम्' इति ग-टी-पाठः । ५ 'एकदेशानिर्देशाद्', 'एकदेशनिर्देशाद्' इति क-ख-पाठः । ६ नरकपञ्चेन्द्रियजातौ' इति घ-पाठः । ७ 'न भवन्ति शुभा' इति घ-पाठः। ८ इत्युच्यन्ते इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org