________________
२३५
सूत्र २]
स्वोपज्ञभाष्य-टीकालङ्कृतम् चतुर्दशसहस्राधिकलक्षायाम्, सप्तम्यास्त्ववगायाधः पञ्चाशत्सहस्राणि पश्चविंशतिशताधिकानि अधश्च तावन्त्येव विहाय मध्ये त्रिषु सहस्रेषु नरका भवन्ति, एष च सप्तमपृथिवीगतविशेषो नोपात्तः साक्षाद् भाष्यकारेण, तत्रायमभिप्रायः-यत् किल बाहुल्याद् वर्तते तदुपा. त्तमितरदेकपृथिवीवर्तियुतकमेवाऽतो नाख्यातमिति ॥
तानिदानी प्रसिद्धैरिहत्यनिदर्शनैर्भयानकसंस्थानैर्नरकान् प्रतिपादयितुमाहभा०-तद्यथा-उष्ट्रिकापिष्टपचनीलोहीकरकेन्द्रजानुकान्तोकायस्कुम्भायः
कोष्ठादिसंस्थाना वज्रतलाः सीमन्तकोपक्रान्ताः, रौरवोऽच्युतो नारकावासानां और
म रौद्रो हाहोरवो घातनस्तानः शोचनः क्रन्दनो विलपनश्छेदनो
भेदनः खटापटः कलापेञ्जर इत्येवमाद्याः अशुभनामानः, कालमहाकालरौरवमहारौरवाऽप्रतिष्ठानपर्यन्ताः॥
टी-तद्यथा-उष्ट्रिकेत्यादि ।उष्ट्रिकादयो भाण्डकविशेषा लोकप्रसिद्धत्वात् सुज्ञाना एव, एवंविधाकृतयो हि नरका अविद्यमानसुखाःक्षुरप्राकृतिवज्रतलाः प्रबहलध्वान्तपटलपूरिताश्च सर्पमाजोरादिमृतकगन्धयः करपत्र-शक्ति-कुन्त-तोमराग्रसदृशस्पर्शाः आवलिकातो बहिर्वत. माना नानासंस्थाना उष्ट्रिकाद्याकृतयः प्रकीर्णनरका भवन्ति, आवलिकान्तःपातिनस्तु त्रिविधसंस्थाना वृत्तव्यस्रचतुरस्राकृतयः, ते च सीमन्तकोपक्रान्ताः, सर्वेऽपि हि ते रत्नप्रभापृथिवीप्रथमप्रतरमध्यवर्तिसीमन्तकाभिधाननरकेन्द्रकमवधिमवस्थाप्योपक्रम्यन्ते, तत्रावलिकाप्रविष्टा दिक्ष रत्नप्रभायां त्रयोदशसु प्रस्तरेषु विदिक्षु च प्रथमप्रतरदिगावलिका प्रमाणेनैकोनपञ्चाशन्नरकाः, अष्टचत्वारिंशच नरका विदिक्ष्वावलिका, इदमावलिकाद्वयमप्येकैकेन नरकावासेन हीयमानं हीयमानमशेषप्रतरवति तावन्नेतव्यं यावत् सप्तमवसुन्धरायामेकैकः शेषो दिक्षु नरकः सञ्जातो विदिक्षु नास्त्येव मध्ये चैक इन्द्रकः शेष इति ॥अत्र कांश्चिन्नामग्राहमाख्याति-रौरवोऽच्युत इत्यादिना । एषां मध्ये केचिदिन्द्रकाः केचिदावलिकाप्रविष्टाः केचित् प्रकीर्णकाः सरिणोपात्ताः सत्त्वानां संवेगप्राप्त्यर्थम्, एषां हि नामान्यप्यादधति भयमतुलमाकर्ण्यमानानि, किमुत तत्र जन्मभोग इति भीताः सन्तो न सहसा पापस्थानेषु वर्तिष्यन्त इत्यभिप्रायः॥ एवमाद्या-एवंप्रकाराः, अशुभनामानो यावन्तः किल लोके व्याधयः शपथाश्चानिष्टनामानि च तन्नामानो नरकाः सर्वे भवन्ति ॥ अधुना सप्तमपृथिवीवर्तिनः पञ्च नरकान्नामादेशं कथयतिकालेत्यादि । अप्रतिष्ठाननरकेन्द्रकात् पूर्वतः कालः, अपरतो महाकालः, रौरवो
१'तदुपपातं' इति क-पाठः । २ 'पृथिवीवर्तियुतकमेवावर्तियुतकमेव' इति ग-पाठः । ३ 'जानुकजन्त्राकाय इति घ-पाठः। ४ 'हारवः' इति ग-टी-पाठः । ५ 'शोचनस्तापनः क्रन्दनो' इति घ-पाठः । ६ 'संवेगमाप्स्यर्थ' इति, 'संवेगसमाप्त्यर्थ' इति च ग-टी-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org