SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २३४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ३ कोशोनपञ्चयोजनबहलम्, तृतीयस्याः पञ्चयोजनबहलम्, चतुर्थ्याः सक्रोशपञ्चयोजनबहलम्, पञ्चम्यास्त्वर्धषष्ठयोजनबहलम्, षष्ठयाः क्रोशोनयोजनषट्कबहलम्, सप्तम्याः पइयोजनबहलमिति । तनुवातवलयमपि मध्ये सर्वासामसङ्ख्येयानि योजनसहस्राणि धनम्, पर्यन्तेषु प्रदेशहान्या तनुकम्, रत्नप्रभायास्तावत् तनुवातवलयं षट्क्रोशधनम्, द्वितीयस्याः सत्रिभागषटकोशधनम् , तृतीयस्यास्त्रिभागोनसप्तकोशधनम्, चतुर्थ्याः सप्तकोशघनम्, पञ्चम्याः सत्रिभागसप्तकोशधनम्, षष्ठयास्त्रिभागोनाष्टक्रोशधनम्, सप्तम्याः क्रोशाष्टकघनमिति । एते च घनवाततनुवाताः घना घनतरा घनतमाश्चाधोधो विशेषणानादिपरिणामवशादेव द्रष्टव्याः ॥ एतासां च पृथिवीनां सप्तानामपि परतस्तिर्यग् न समनन्तरमेवालोको भवति, नापि सप्तम्याः समनन्तरोऽधः, किन्तु रत्नप्रभायास्तावद द्वादश योजनानि गत्वा परतश्चतसप्वपि दिक्षु विदिक्षु सर्वासु पश्चादलोको भवति, द्वितीयस्यास्त्रिभागोनानि त्रयोदश योजनानि गत्वा भवत्यलोकः, तृतीयस्याः सत्रिभागानि त्रयोदश योजनानि यात्वाऽलोकः, चतुर्थ्याश्वतुदेश योजनान्यवगाह्यालोकः, पञ्चम्यास्त्रिभागोनानि पश्चदश योजनानि प्रविश्यालोकः, षष्ठयाः सत्रिभागानि पञ्चदश योजनान्यतीत्यालोकः, सप्तम्याः षोडश योजनानि तिर्यगधश्च गत्वा भवत्यलोक इति ॥ सर्वाश्चैता अनादिपारिणामिकभावव्यवस्थानाः, नामान्यपि रत्नाद्याकारसम्बन्धात् गोत्रकृतानि रत्नप्रभादीनि तत्स्वभावत्वादनाद्यानि, धर्मादीन्यपि यादृच्छिकान्यनादिकालप्रसिद्धानीति, एवमयमधोलोकश्चतुर्थपृथिव्यवकाशान्तरसमधिकार्धव्यतीतमभ्योऽधोमुखशरावाकृति व योजनशतान्यवगाह्य समतलाद् भूभागादधोरत्नप्रभाव्यवस्थितोपरितनाऽधस्तनक्षुल्लकातरारब्धः, सप्तमपृथिवीपरतो यावत् षोडश योजनानीति ॥१॥ अधुना नारकजीवविवक्षायामन्तरतमतदाधारमिदमेव प्रक्रियते भूमिषु सूत्रम्-तासु नरकाः ॥३-२॥ भा०-तासु रत्नप्रभाद्यासु भूमिषु ऊर्ध्वमधश्चैकैकशी योजनसहस्रमेकैकं वर्जयित्वा मध्ये नरका भवन्ति ।। टी०-उक्ता भूमयो नामतो गोत्रतः संस्थानतः सङ्ख्यातश्च, प्रस्तुतत्वात् ताः सर्वनाम्ना परामृश्यन्ते, तासूक्तलक्षणासु रत्नप्रभाद्यासु भूमिपूर्ध्वमेकैकस्याः पृथिव्याः स्वावगाहाद् योजनसहस्रमपहायोपर्यधश्चकं परित्यज्य शेषे स्वावगाहे नरैका भवनारकाणां न्ति ऑषष्ठयाः, रत्नप्रभायास्तावदष्टसप्ततिसहस्राधिकलक्षायाम, द्विती यस्यात्रिंशत्सहस्राधिकलक्षायाम्, तृतीयस्याः षड्विंशतिसहस्राधिकलक्षायाम्, चतुर्यास्त्वष्टादशसहस्राधिकलक्षायाम, पञ्चम्याः षोडशसहस्राधिकलक्षायाम्, षष्ट्या स्थानम् 'मधोऽधो' इति ग-पाठः। २ 'भूपूर्व.' इति घ-पाठः। ३ 'त्यज्याशेष' इति क-पाठः । ४ 'नारका' इतिक-ख-पाठः । ५ 'आद्याः' इति क-ख-पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy