SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ सूत्र १ स्वोपज्ञभाष्य-टीकालङ्कृतम् २३३ भा०-सर्वाश्चैता अधोऽधः पृथुतराइछत्रातिच्छत्रसंस्थिताः । पृथ्वीनामाकारो प्रश्नानासाकार धर्मा वंशा शैला अञ्जना रिष्ठा माधव्या माघवीति च आसां नामधेयानि यथासङ्ख्यमेवं भवन्ति। रत्नप्रभा धनभावेनाशीतं योजनशतसहस्रम् , शेषा द्वात्रिंशदष्टाविंशतिर्विशत्यष्टादशषोडशाष्टाधिकमिति । टी.-सर्वाश्चैता इत्यादि भाष्यम् । रत्नप्रभाद्या महातमःप्रभापर्यवसाना अघोऽध: पृथुतरा:-एकरज्जुप्रमाणा विष्कम्भायामाभ्यां रत्नप्रभा, शकराप्रभाऽधतृतीयरज्जुप्रमाणा, वालुकाप्रभा चतूरज्जुप्रमाणा, पङ्कप्रभा पञ्चरज्जुप्रमाणा, धूमप्रभा रज्जुषट्कप्रमाणा, तमःप्रभाऽर्धसप्तरज्जुप्रमाणा, महातमःप्रभा सप्तरज्जुप्रमाणेति । अत एव छत्रातिच्छन्नसंस्थिता भवन्त्येताः, छत्रातिच्छत्रे ह्युपरितनं छत्रमायामविष्कम्भाभ्यां लघु भवति, तदधोवर्ति विस्तीर्णतरम्, तस्याप्यधो विशालतममित्यतः छत्रातिच्छत्रवत् स्थिताः, सर्वत्र धनभावेन समा झल्लाकृतयः। तासां चोत्कीर्तनमुभयथा नामतो गोत्रतश्च, तत्र प्रथमा घर्मा नाम्ना रत्नप्रभा गोत्रेण, द्वितीया वंशा नाम्ना शर्कराप्रभा गोत्रेण, तृतीया शैला नाम्ना वालुकाप्रभा गोत्रेण, चतुयेंञ्जना नाम्ना पङ्कप्रभा गोत्रेण, पञ्चमी रिष्ठा नाम्ना धूमप्रभा गोत्रेण, षष्ठी माधव्या नाम्ना तमःप्रभा गोत्रेण,सप्तमी माधवी नाम्ना महातमःप्रभा गोत्रेणेति,एवमेतानि नामधेयानि-नामान्येवासां यथाक्रममुभयथाऽवगन्तव्यानीति ॥ तत्र रत्नप्रभा पूवोपरादिविभागव्यवच्छिन्ना सर्वत्र घनभा. वेन बहलतया अशीतिसहस्रोत्तरयोजनलक्षप्रमाणेति, द्वितीया द्वात्रिंशत्सहस्रोत्तरलक्षप्रमाणा, तृतीयाऽष्टाविंशतिसहस्रोत्तरलक्षप्रमाणा, चतुर्थी विंशतिसहस्रोत्तरलक्षप्रमाणा, पञ्चम्यष्टादशसहस्रोत्तरलक्षप्रमाणा, षष्ठी षोडशसहस्रोत्तरलक्षप्रमाणा, सप्तमी सहस्राष्टकोत्तरलक्षप्रमाणेति ॥ अधुना सर्ववसुधावर्तिनो घनोदधीन मध्यप्रदेशे बहलतया निर्दिशति भा०-सर्वे घनोद्धयो विंशतियोजनसहस्राणि, घनवांततनुधनोदध्यादि. मानम् वातास्त्वसङ्ख्येयानि, अधोऽधस्तु घनतरा विशेषेणेति ॥१॥ टी०-सर्वे घनोधयो विंशतियोजनसहस्राणि । घनाः सर्वपृथिवीनामधोभागवर्तिनां मध्यप्रदेशेषु, प्रदेशहान्या तु हीयमानाः पार्थिवाः पृथिवीपर्यन्तप्रदेशेषु वलयाकृतिव्यवस्थानास्तनुतरा भवन्ति, तद्यथा-प्रथमायां घनोदधिवलयबहलता सर्वत्र षड् योजनानि, द्वितीयस्यां घनोदधिवलयं सत्रिभागषड्योजनबहलम्, तृतीयस्यां त्रिभागोनसप्तयोजनबहलम्, चतुर्थ्याः सप्तयोजनबहलम् , पञ्चम्याः सत्रिभागसप्तयोजनबहलम् , षष्ठयास्त्रिभागोनयोजनाष्टकबहलम्, सप्तम्यां योजनाष्टकबहलमिति । तथा सर्वे घनवाता असङ्ख्येयानि योजनसहस्राणि मध्येषु, पर्यन्तेषु तनुकाः, रत्नप्रभायास्तावंदर्धपश्चमयोजनबहलं धनवातवलयम्, द्वितीयस्याः १ 'धनवातास्त्व.' इति क-पाठः । २ 'स्थानात् तनुतरा' इति प्रतिभाति । ३ 'अध्यर्धपञ्चम' इति ग-टी-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy