________________
२३२
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ३
बंधति, बंधित्ता अत्थाहमतारमपोरिसियंसि उदगंसि ओगाहेज्जा, गुणं गोयमा ! से पुरिसे तस्स आउक्कायस्स उप्पि उवरितले चिठ्ठति ? हंता चिठ्ठति, एवमेव अट्टविहा लोकहिती पण्णत्ता " (भग००१, उ०६, मू०, ५४) । रत्नप्रभाषाश्च प्रथमं काण्डं रत्न वज्र - वैडूर्य - लोहिताख्य-मसारगल्लहंसगर्भ- पुलक-सौगन्धिक- ज्योतीरसाञ्जनाञ्जन- पुलक- रजत - जातरूपाङ्क - स्फटिकारिष्टभेदात् षोडशधा, इतरे त्वेकाकारे पङ्कजल बहुले काण्डे, शेषाश्च भूमयः शर्कराद्याः एकाकारा एवावसातव्याः । सप्तग्रहणं नियमार्थमित्यादि, विशिष्टसङ्ख्या शब्दोपादानानियमः क्रियते सप्तैवाधः पृथिव्यः, का पुनराशङ्का नियमाभिप्रायानुवर्तिनः सूरेरिति । उच्यते-रत्नप्रभाद्या मा भूवनेकशो ह्यनियतसङ्ख्या इति । रत्नप्रभायाः प्रथमं काण्डं षोडशधा, तथा पङ्कबहुलं काण्डं जलबहुलं काण्डमिति एकैकस्य भेदस्य पृथिवीत्वाद् बहुत्वं पृथिवीनामधः स्यात्, अत एवमेकैका नियतसङ्ख्या मा भूदिति सप्तग्रहणमुपात्तम्, इतरा अपि च प्रतरादिभेदेन भिद्यमाना बहुत्वमनुयान्ति स्वस्थान एवेति तस्मान्नियमापादनम् । किञ्चान्यत् - अन्यदपि हि सप्तग्रहणस्य प्रयोजनमस्त्येव किञ्चित्, अधः सप्तैवेत्यवधार्यते विशिष्टसङ्ख्यानियमोऽधः प्रदर्श्यते, न पुनः पृथिव्य एतावत्य एव त्रैलोक्य इत्यवधार्यते, यत ऊर्ध्वं त्वेकैवेति वक्ष्यति, उपरिष्टात् पुनः सर्वकल्पविमानान्यतीत्यार्धतृतीयद्वीप विष्कम्भायामोत्तानकच्छत्राकृतिरीषत्प्राग्भारा नाम - थिवी दशमेऽध्याये ( १९ तम) कारिकाभाष्येण व्याख्यास्यते 'तन्वी मनोज्ञा सुरभिः, पुण्या परमभासुरा' इत्यादिनेति । तथाऽन्यदपि सप्तग्रहणस्य प्रयोजनमाख्यायते—
अधः पृथ्वीनां सप्तत्वनियमः
असङ्ख्य प्रस्तारे निरासः
भा०— अपिच - तन्त्रान्तरीया असङ्ख्येयेषु लोकधातुषु असङख्येयाः पृथिवीप्रस्तारा इत्यध्यवसिताः, तत्प्रतिषेधार्थं च सप्तग्रहणामिति ॥
टी० - तन्त्रान्तरीया इत्यादि भाष्यम् । अन्तरे भवाः अन्तरीयास्तन्त्रप्रधाना अन्तरीयास्तन्त्रान्तरीयाः- जिनप्रवचनवाह्यास्ते च प्रायः प्रस्तावान्मायासूनवीया एव गृह्यन्ते, सर्वतः किलासङ्ख्येया एव लोकधातवस्तेषु चासङ्ख्येया एव पृथिवीप्रस्तारा इत्यध्यवसिता दुर्मेधसः || तदागमश्चायम् " यथा हि वर्षति देवे प्रततधारं नास्ति वीचिका वा अन्तरिका वा एवमेव पूर्वायां दिशि लोकधातवो नैरन्तर्येण व्यवस्थितास्तथाऽन्यास्वपि द्विविति " तत्प्रतिषेधार्थं च सप्तग्रहणं क्रियते, सप्तैवैताः सर्वतः परिमाणपरिच्छिन्ना लोकान्तर्वर्तिन्यः, लोकच परिमाणवान् सर्वतो जीवाजीवात्मकत्वाच्छरीरादिवदिति, मूर्तिमद्द्रव्यात्मकत्वाद् वा घटादिवत् ।
बस्तिमापूरयति आपूर्यकव्यां बध्नाति, बद्ध्वा अस्ताघमतार्यमपौरुषेय उदकमवगाहेत, नूनं गौतम! स पुरुषः तस्य अप्कायस्य उपरि उपरितले तिष्ठति ? हन्त तिष्ठति, एवमेव अष्टविधा लोकस्थितिः प्रज्ञप्ता ।
.
१ माभूवननेकशः' इति ग-टी-पाठः । २ 'नियमादापादनम् ' इति ग-टी-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org