SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ सूत्र १] स्वोपज्ञभाष्य-टीकालङ्कृतम् २३१ चन्द्रादित्यादिविमानानि निरालम्बे विहायसि परिप्लवन्ते, न चाधः पतन्ति लोकानुभावादेववैताः पृथिव्योऽपीति, आकाशं पुनरात्मन्येव प्रतिष्ठितम्, नाधारान्तरसमासादितप्रतिष्ठमिति, यस्मादुक्तम्- अवगाहनमाकाशस्येति, पञ्चमेऽध्याये सूत्रतः उक्तम्- 'आकाशस्यावगाह:' ( अ० ५, सू० १८ ) उपकारः, अवगाहदानेन व्याप्रियत आकाशं सर्वद्रव्याणामवगावतां निखगाहदानव्यापारपरं सदवगाहिष्यते तदन्यत्र तदनुरूपाधाराभावादतः स्वप्रतिष्ठं प्रतिपत्तव्यम् ॥ भा० ० - तदनेन क्रमेण लोकानुभावसन्निविष्टा असङ्ख्येययोजनकोटी कोट्यो विस्तृताः सप्त भूमयो रत्नप्रभाद्याः । सप्तग्रहणं नियमार्थम् । रत्नप्रभाद्या मा भूवन्नकशः अनियतसङ्ख्या इति । किञ्चान्यत्। अधः सप्तैवेत्यवधार्यते, ऊर्ध्वं त्वकैचेति वक्ष्यते ॥ टी० - तदनेन क्रमेणेत्यादि भाष्यम्, तस्मादनेन क्रमेण घनाम्बुघनवाततनुवातवलयाकाशप्रतिष्ठानाः सप्तापि भूमयो लोकानुभावादेव सन्निविष्टाः, प्रतिष्ठाने लोकलोकानुभावो हि लोकस्थितिरनाद्या न केनचिदीश्वरादिना कृता व्योमवस्थितिर्हेतुः दकृत्रिमा, असङ्ख्येययोजनकोटी कोट्यो विस्तृता इति तिर्यक्रप्रमाणमाचष्टे, नाधः प्राच्यात् रत्नप्रभा पृथिवी पर्यन्तात् प्रतीच्यं तत्पर्यन्त एतावदन्तरालमतीत्य भवतीत्येवं शेषाणामपि बहुतरा बहुतमाश्च कोटथो भवन्ति, वृत्तत्वाश्च सर्वासां तुल्यं विष्कम्भायामताऽध्यवसेया'।। प्रवचनं चेदम् - " कँतिविहाणं भंते! लोकट्टिती पण्णत्ता ? गोयमा ! अद्यविहा लोग हिई पण्णत्ता, तंजहा - आगासपतिट्टिए वाए १ वातपतिठिए उदही २ उदधिपट्टिया पुढवी ३ पुढवीपतिठिता तसथावरा पाणा ४ अजीवा जीवपतिहिया ५ जीवा कम्मपट्टिया ६ अजीवा जीवसंगहिता ७ जीवा कम्म संगहिता ८ ॥ से केणट्टेणं भंते । एवं वुच्चति अट्टविहा लोगfect ? गोयमा ! से जहा नामए केति पुरिसे वत्थिमाडोवेति, वत्थिमाडोवेत्ता उपिसि बंधति, बंधित्ता मज्झे गंटिं देति, मज्झे गंठि दलइत्ता उवरिल्लं गठिं मुहत्ता उवरिल्लं देतं वामेति, वामेता आउकायस्स पूरेति, पूरिता उपिसि तं बंधति, बंधित्ता मझिल्लं गठिं मुयति, तेणं गोयमा ! से आउare तस्स वाउक्कायस्स उवरितले चिठ्ठति, से तेणं अद्वेणं गोयमा ! एवं चुम्बति-अठ्ठविहा लोकहिती पण्णत्ता । से जहा वा केह पुरिसे वत्थिमाडोवेति, आडोवेत्ता कडीए १ 'ह्यनियत' इति घ-पाठः । २ ' तुल्य विष्कम्भायामेत्यध्यवसेया' इति ख- पाठः । ३ कतिविधा भदन्त । लोकस्थितिः प्रज्ञप्ता ? गौतम! अष्टविधा लोकस्थितिः प्रज्ञप्ता, तद्यथा-आकाश प्रतिष्ठितो बातः, वातप्रतिष्ठित उदधिः, उदधिप्रतिष्ठिता पृथ्वी, पृथ्वीप्रतिष्ठिता त्रसस्थावराः प्राणाः, अजीवा जीवप्रतिष्ठिताः, जीवाः कर्मप्रतिष्ठिताः, अजीवा जीवसंगृहीताः, जीवाः कर्मसंगृहीताः । अथ केनार्थेन भदन्त । एवमुच्यते - अष्टविधा लोकस्थितिः ? गौतम! तत् यथानामकः कश्चित् पुरुषः बस्तिमापूरयति, बस्तिमापूर्य उपरिष्टात् तां बभ्रति बद्ध्वा मध्ये प्रचि ददाति मध्ये प्रथि दवा उपरितनं मन्थि मुक्त्वा उपरितनं देशं वमयति ( रिक्तीकरोति ) वमयित्वा अप्कायं पूरति पूरयित्वा उपरिष्टात् तो बध्नाति वा मध्यमं प्रन्धि मुश्चति, तेन गौतम ! सः अप्कायः तस्य वायुकामस्म सपरित के तिष्ठति, तदेतेनार्थेन गौतम! एवमुच्यते-अविधा लोकस्थितिः प्राप्ता । अथ यथा वा कश्चिद पुरुषः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy