________________
२३०
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ३
भा० – रत्नप्रभाया अधः शर्कराप्रभा, शर्कराप्रभाया अघो वालुकाप्रभा इत्येवं शेषाः । अम्बुवताकाशप्रतिष्ठा इति सिद्धे घनग्रहणं क्रियते तेनायमर्थः प्रतीयेत घनमेवाम्बु अधः पृथिव्याः, वातास्तु घनास्तनवश्चेति ॥
घनशब्दफलम्
टी० - रत्नप्रभाया अघोऽसङ्ख्येया योजनकोटीनां कोटीरवगाह्य शर्कराप्रभा भवति, शर्कराप्रभायास्त्वघोऽसङ्ख्येया एव योजनकोटीनां कोटीरतिक्रम्य वालुकाप्रभा भवति, एवं शेषाः पङ्कप्रभाद्या असख्येययोजनकोटी कोट्यवकाशान्तरा वक्तव्या अधोsध इति ॥ अथ घनग्रहणं किमर्थं क्रियते अम्बुवताकाशप्रतिष्ठा इत्येतावतैवाभिलषितार्थप्रसिद्धेरिति १ सूरिराह - सत्यमेवं सिद्ध्यति, सिद्धे सति यत् तथापि घनग्रहणं क्रियते तेनायमर्थो ज्ञाप्यते घनमेवाम्वु अधः पृथिव्याः प्रत्येकं यथा स्यात्, मा भूद् द्रवमिति । वातास्तूभयथा घनास्तनवश्चेति । यथैव पृथिवीनामधोऽधो व्यवस्थानम शेषाणामेवमेकस्यां पृथिव्यां स्वभेदानामधोऽधो व्यवस्थानं दर्शयितुमाहभा०-- तदेवं खरपृथिवी पङ्कप्रतिष्ठा, पको घनोदधिवलखरपंकादिप्रतिष्ठा- प्रतिष्ठः, घनोदधिवलयं घनवातवलयप्रतिष्ठम्, घनवातवलप तनुवातबलप्रतिष्ठम्, ततो महातमोभूतमाकाशम् । सर्व चैतत् पृथिव्यादि तनुवात वलयान्तमाकाशप्रतिष्ठम्, आकाशं चात्मप्रतिष्ठम् । उक्तमवगाहनमाकाशस्येति ॥
स्वम्
टी० - तदेवं खरपृथिवी पङ्कप्रतिष्ठा । आदावत्र रत्नप्रभायाः खरपृथिवीकाण्डं रत्नबहुलं योजन सहस्रपोडशकबाहल्यम्, तत् पङ्कपृथिवी हाण्डे पक्काहुले चतुरशीतियोजन सहस्रब हुले प्रतिष्ठितम्, तदपि पङ्कपृथिवी काण्डम प्रपृथिवी काण्डे जलबहुलेऽशीतियोजन सहस्रघने प्रतिष्ठितम् । अत्र चाचार्येणान्बहुलं काण्डं नोपात्तं पृथग्, घनोदधिवलयग्रहणेनैव लब्धत्वाद्, घनोदधिश्व घनोदधिवलयं चेत्येकदेशनिर्देशात्, तत् पुनर्जलबहुलं काण्डं विंशतियोजन सहस्रबहुले घनाम्बुवलये प्रतिष्ठितम्, घनोदधिवलयमप्यसङ्ख्येययोजन सहस्रघने घनवानवलये प्रतिष्ठितम्, घनवातवलयमपि सङ्ख्येययोजनसहस्रबाहल्ये तनुवातवलये प्रतिष्ठितम्, ततस्तनुवात वलयात् परं महातमोभूतमाकाशमसङ्ख्येययोजनकोटी कोटी प्रमाणम्, तदन्तरालवर्ति वियत् तनुवात वलयद्वितीय पृथिव्योः सूचि भेद्येन सन्तमसेन समन्ततो विजृम्भमाणेनातिघनतां गतेन व्याप्तम्, अतो महातम इव तत् प्रतिभातीति महातमोभूतमुच्यते तच्चास्याः खरकाण्डादिभेदायास्तनुवातवलयपर्यन्ताया रत्नप्रभा पृथिव्याः प्रपन्नमाधारतामधिगन्तव्यमि - त्यादर्शयति - सर्व चैतत् पृथिव्यादीत्यादिना । न चैतत् अश्रद्धेयं प्रत्यक्षप्रमाणसमधिगम्यानि
१ 'येन प्रतीयते' इति घ-पाठः । २ 'पृथिव्या' इति ग-घ-टी पाठः । ३ 'योजनकोटीरतिक्रम्य' इति ग-टीपाठः । ४ 'त्वात्म०' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org