________________
स्वोपज्ञभाष्य-टीकालङ्कतम्
२२९
सूत्र १ ]
सस्वविशेषा इत्यर्थः । तत्र नरकप्रसिद्ध्यर्थमिदमुच्यते, तत्र तेषु नरकेषु विवक्षितेषु तन्मूलत्वात् तत्प्रतिष्ठत्वान्नारकप्रतिपच्यर्थमेव तावदिदमभिधीयते नान्तरीयकत्वादिति ॥
सूत्रम् - रत्नशर्करावालुकापधूमतमो महातमः प्रभा भूमयो घनाम्बुवताकाशप्रतिष्ठाः सप्ताधोऽघः पृथुतराः ॥ ३१ ॥
टी. - सूत्रकृतोऽप्येष एव संम्बन्धोऽतः पृथग् नोक्तः, अथवा वक्ष्यते नवमे - आज्ञापायविपाक संस्थानविचयाय धर्म्यमप्रमत्तसंयतस्य (अ० ९, सू० ३७ ) इति, तत्र संस्थानविचय:
"लोकस्यास्तिर्यग् विचिन्तयेदूर्ध्वमपि च वाइल्यम् ।
सर्वत्र जन्ममरणे, रूपिद्रव्योपयोगांश्च ||" - प्रशम० श्लो० १६०
इति, तत्र प्राक् तावदधोलोकस्वरूपमेव पृथिवीभेदेनोच्यते । रत्नशर्करेत्यादि सूत्रम् । ततस्तिर्यग्लोकस्वरूपं जम्बूद्वीपलवणादिप्रक्रमेण पश्चाच्चतुर्थे ऊर्ध्वलोकस्वरूपमिति, एवमयं त्रिविभागः पञ्चास्तिकाय समुदयवृत्तिर्जीवाजीवाधार क्षेत्र लक्षणो वैशाखस्थानस्थित कटिस्थकरयुग्मपुरुषाकृतिर्लोकः, तस्याधस्तन भाग स्वरूपावगमनायेदमुच्यते । अथवा सम्यग्दर्शनभाग्भिर्जीबैर्लोकस्य सङ्ख्येयभागः स्पृष्ट इत्युक्तं प्रथमाध्याये ( मू० ८) सम्यग्दृष्टिना तु सर्वलोकः, तदुच्यतां निर्देशतः को लोक इत्यतोऽधोविभागादिः स आख्यायते ।। रत्नशर्करेत्यादि सूत्रम्, रत्नानि - वज्रादीनि तत्प्रधाना रत्नप्रभा, शर्करादयोऽपि प्रतीतास्तत्प्रधानाः सर्वा वक्तव्याः, प्रभाशब्द रूपस्वभाववाची, रत्नप्रभा रत्नस्वभावा रत्नमयी रत्नबहुलेति, एवं शर्कराप्रभादयोऽपि वाच्याः, एष च प्रभाशन्दः पत्येकमभिसम्बध्यत इति दर्शयति
भा० – रत्नप्रभा शर्कराभा वालुकाप्रभा पङ्कप्रभा घूमप्रभा तमः प्रभा महातमः प्रभा इत्येता गो घनाम्बुवताकाशप्रतिष्ठा भवन्त्येकैकशः सप्ताघोऽधः ॥
नरक पृथ्वीना
माधाराः
टी० - रत्नप्रभेत्यादिना भाष्येण । इत्येता भूमयां घनाम्बुवताकाशप्रतिष्ठा भवन्त्येकैकशः सप्ताघोऽधः, एवमेता रत्नप्रभाद्याः पृथिव्यो घनाम्बुनि वायौ वियति च प्रतिष्ठिताः; नेश्वराद्याधारा इत्याचष्टे । घनाम्बु च वाताचाकाशं च घनाम्बुवताकाशानि तेषु प्रविष्टा स्थितिर्वर्तनं यासां ता घनाम्बुवताकाशप्रतिष्ठा भवन्ति, एकैका एकैकशः घनावताकाशक्रमेण प्रतिष्ठिताः, न पुनः सप्तानामप्यध एव घनाम्बुवताकाशानि प्रत्येकमन्तरालेषु न सम्भवन्तीति सङ्ख्ययाऽवधार्यन्ते सप्तैवान्यूनाधिका इति । अंधोऽध इति प्रतिविशिष्टक्रमाख्यानं तिर्यगूर्ध्वदिशो व्युदासः, एतदेव स्पष्टयति
१ 'सम्बन्धो न पृथगुक्तः' इति क ख पाठः । २ 'महातमः प्रभा भूमयो' इति ग-टी-पाठः । ३ अधः' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org